This page has been fully proofread once and needs a second look.

पराभिद्रोहबुद्धेरसमीक्षितमसद्दोषश्रावणं वाक्पारुष्यम् । निर्दयो वधबन्ध-
छेदविधिरनुचितो दण्डपारुष्यम् । निरनुक्रोशतो वित्तलोभोऽर्थपारुष्यम् ।
एवं सप्तधा प्रसङ्गव्यसनं भवति । पीडनं पुनरष्टधा देवाग्न्युदकव्याधिमरक-
विषूचिकादुर्भिक्षासुरीवृष्टिभिर्भवति । अतिवृष्टिरनावृष्टिरेवासुरीवृष्टिरुच्यते ।
तदेतद्व्यसनं पीडनं नाम मन्तव्यम् । अथ गुणप्रतिलोमता नामोच्यते । यदा
संधिविग्रहयानासनसंश्रयद्वैधीभावानां षण्णां गुणानां प्रातिलोम्येन वर्तते
संधौ प्राप्ते विग्रहं करोति विग्रहे प्राप्ते संधिं करोत्येवमेव शेषेष्वपि गुणेषु
गुणप्रातिलोम्येन यदा वर्तते तदा तद्व्यसनं गुणप्रतिलोमतेत्यवगन्तव्यम् ।
तत्सर्वथायं संजीवकात् पिङ्गलको वियोज्य:यः । यस्मात् प्रदीपाभावात्
प्रकाशाभावः । करटक आह । असमर्थो भवान् । तत्कथं वियोजयिष्यतीति ।
दमनकोऽब्रवीत् । भद्रोपायश्चिन्तनीयः । उक्तं च
 
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
काकी कनकसूत्रेण कृष्णसर्पममारयत् ॥ ६० ॥
 
करटक आह । कथं चैतत् । सोऽब्रवीत् ।
 
अथ वायससर्पकथा नाम चतुर्थी कथा ।
 
अस्ति कस्मिंश्चित् प्रदेशे वृक्षः । तस्मिंश्च वायसदम्पती प्रतिवसतः
स्म । तयोस्तु प्रसवकालेऽसंजातक्रियाण्येवापत्यानि तद्वृक्षविवरानुसारी
कृष्णसर्पो भक्षयति स्म । ततस्तौ निर्वेदादन्यवृक्षमूलनिवासिनं प्रियसुहृदं
गोमायुमपृच्छताम् । भद्र किमेवं गते प्राप्तकालं भवान्मन्यते । बालघाति-
त्वाच्च वृद्धयोरभाव एवावयोः । सोऽब्रवीत् । नात्र विषये विषादः कार्यः ।
नूनं स लुब्धो नोपायमन्तरेण वध्यः स्यात् ।
 
भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् ।
अतिलौल्याद्बकः पश्चान्मृतः कर्कटकग्रहात् ॥ ६१ ॥
 
वायसावाहतुः । कथं चैतत् । सोऽब्रवीत् ।
 
अथ बककुलीरककथा नाम पञ्चमी कथा ।
 
अस्ति कस्मिंश्चित् प्रदेशे नानाजलचरसनाथं सरः । तत्र च कृताश्रयः
कश्चिद्बको वृद्धभावमुपागतो मत्स्यान् व्यापादयितुमसमर्थः सरस्तीरं गत्वो-
द्विग्नमिवात्मानं दर्शयित्वावस्थितः । तत्रानेकमत्स्यपरिवृत एकः कुलीरकोऽ-