This page has been fully proofread once and needs a second look.

मित्रभेदम्
 
[ तन्त्रम् १
 
पराभिद्रोहबुद्धेरसमीक्षितमसद्दोषश्रावणं वाक्पारुष्यम् । निर्दयो वधबन्ध-

छेद विधिरनुचितो दण्डपारुष्यम् । निरनुक्रोशतो वित्तलोभोऽर्थपारुष्यम् ।

एवं सप्तधा प्रसङ्गव्यसनं भवति । पीडनं पुनरष्टधा देवाग्न्युदकव्याधिमरक-

विषूचिकादुर्भिक्षासुरीवृष्टिभिर्भवति । अतिवृष्टिरनावृष्टिरेवासुरीवृष्टिरुच्यते ।
3

तदेतद्व्यसनं पीडनं नाम मन्तव्यम् । अथ गुणप्रतिलोमता नामोच्यते । यदा
सांध

संधि
विग्रहयान।नासनसंश्रयद्वैधीभावानां षण्णां गुणानां प्रातिलोम्येन वर्तते

संधौ प्राप्ते विग्रहं करोति विग्रहे प्राप्ते संधिं करोत्येवमेव शेषेष्वपि गुणेषु

गुणप्रातिलोम्येन यदा वर्तते तदा तब्द्व्यसनं गुणप्रतिलोमत्तेत्यवगन्तव्यम् ।

तत्सर्वथायं संजीवकात् पिङ्गलको वियोज्य: । यस्मात् प्रदीपाभावात्
10

प्रकाशाभावः । करटक आह । असमर्थो भवान् । तत्कथं वियोजयिष्यतीति ।

दमनकोऽब्रवीत् । भद्रोपायश्चिन्तनीयः । उक्तं च
 

 
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।

काकी कनकसूत्रेण कृष्णसर्पममारयत् ॥ ६० ॥

 
कर
टक आह् । कथं चैतत् । सोऽब्रवीत् ।
 
15
 

 
अथ वायससर्पकथा नाम चतुर्थी कथा ।
 

 
अस्ति कस्मिंश्चित् प्रदेशे वृक्षः । तस्मिंश्च वायसदम्पती प्रतिवसतः

स्म । तयोस्तु प्रसवकालेऽसंजातक्रियाण्येवापत्यानि तद्वृक्षविवरानुसारी

कृष्णसर्पोंपो भक्षयति स्म । ततस्तौ निर्वेदादन्यवृक्षमूलनिवासिनं प्रियसुहृदं

गोमायुमपृच्छताम् । भद्र किमेवं गते प्राप्तकालं भवान्मन्यते । बालघाति-
20 त्वा

त्वाच्
च वृद्धयोरभाव एवावयोः । सोऽब्रवीत् । नात्र विये विषादः कार्यः ।

नूनं स लुब्धो नोपायमन्तरेण वध्यः स्यात् ।
 
१८
 
25
 

 
क्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् ।

अतिलौल्याद्बकः पात:पश्चान्मृतः कर्कटकप्ग्रहात् ॥ ६१ ॥

 
वायसावाहतुः । कथं चैतत् । सोऽब्रवीत् ।
 

 
अथ बककुलीरककथा नाम पञ्चमी कथा ।
 

 
अस्ति कस्मिंश्चित् प्रदेशे नानाजलचरसनाथं सरः । तत्र च कृताश्रयः

कश्चिद्को वृद्धभावमुपागतो मत्स्यान् व्यापादयितुमसमर्थ:थः सरस्तीरं गत्वो-

द्
विघ्ग्नमिवात्मानं दर्शयित्वास्थितः । तत्वारानेकमत्स्यपरिवृत एकः कुलीरको-