This page has been fully proofread once and needs a second look.

जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना ।
दूतिका तन्त्रवायेन त्रयोऽनर्थाः स्वयंकृताः ॥ ५६ ॥
 
समुपलब्धतत्त्वार्थैश्चाधिकृतैः परित्रायितो नापित इति ।
 
इति तृतीया ( ग ) कथा सर्वा च तृतीया कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । जम्बुको हुडुयुद्धेनेति । करटक आह । अथ किमत्र
प्राप्तकालं भवान् मन्यते । दमनकोऽब्रवीत् । भद्रैवमप्यवस्थिते बुद्धिमतां
प्रत्युद्धारसामर्थ्यमस्त्येव । उक्तं च
 
सन्नस्य कार्यस्य समुद्भवार्थ-
मागामिनोऽर्थस्य च संग्रहार्थम् ।
अनर्थकार्यप्रतिषेधनार्थं
यो मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥ ५७ ॥
 
तदयं पिङ्गलको महाव्यसने वर्तते । तदस्मात्संजीवकाद्वियोज्य:यः
कस्मात् ।
 
व्यसनं हि यदा राजा मोहात्संप्रतिपद्यते ।
विधिना शास्त्रदृष्टेन भृत्यैर्वार्यः प्रयत्नतः ॥ ५८ ॥
 
करटक आह । कस्मिन् स्वामी पिङ्गलको व्यसने वर्तते । इह हि सप्त
व्यसनानि राज्ञां भवन्ति । तथा हि
 
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् ।
महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ ५९ ॥
 
दमनक आह । भद्रैकमेवेदं व्यसनं प्रसङ्गाख्यं सप्ताङ्गमिति । करटक
आह । कथमेकमेवेदं व्यसनं भवति । दमनक आह । नन्विह पञ्च मूलव्यस-
नानि । तद्यथा । अभाव:वः प्रदोषः प्रसङ्गः पीडनं गुणप्रतिलोमत्वमिति ।
करटक आह । कस्तेषां प्रतिविशेषः । दमनक आह । तत्र प्रथमं तावत्
स्वाम्यमात्यजनपददुर्गकोशदण्डमित्राणामेकतमस्याप्यभावे व्यसनमभाव इत्य-
वगन्तव्यम् । यदा तु बाह्यप्रकृतयोऽन्तःप्रकृतयो वा प्रत्येकशो युगपद्वा
प्रकुप्यन्ति तद्व्यसनं प्रदोष इति मन्तव्यम् । प्रसङ्गः पूर्वमुक्त एव । स्त्रियोऽक्षा
मृगया पानमित्यादि । तत्र स्त्रियोऽक्षा मृगया पानमिति कामजो वर्गः ।
वाक्पारुष्यादिः कोपजो वर्गः । तत्र कामजैर्व्यवहितः कोपजेषु प्रवर्तते ।
सुबोध एव कामजो वर्गः । कोपजस्तु त्रिविधोऽपि विशेषवचनेनोच्यते ।