This page has not been fully proofread.

स्वयंकृतानर्थकथा
 
जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना ।
 
दूतिका तन्त्रवायेन त्रयोऽनर्थाः स्वयंकृताः ॥ ५६ ॥
समुपलब्धतत्त्वार्यैश्चाधिकृतैः परित्रायितो नापित इति ।
इति तृतीया ( ग ) कथा सर्वा च तृतीया कथा समाप्ता ।
अतोऽहं ब्रवीमि । जम्बुको हुडुयुद्धेनेति । करटक आह् । अथ किमत्र 5
प्राप्तकालं भवान् मन्यते । दमनकोऽब्रवीत् । भद्रैवमप्यवस्थिते बुद्धिमतां
प्रत्युद्धारसामर्थ्यमस्त्येव । उक्तं च
सन्नस्य कार्यस्य समुद्भवार्थ-
मागामिनोऽर्थस्य च संग्रहार्थम् ।
अनर्थकार्यप्रतिषेधनार्थ
 
कथा ३ ]
 
तदयं
 
कस्मात् ।
 
१७
 
यो मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥ ५७ ॥
पिङ्गलको महाव्यसने वर्तते । तदस्मात्संजीवकाद्वियोज्य: ।
 
10
 
व्यसनं हि यदा राजा मोहात्संप्रतिपद्यते ।
 
15
 
विधिना शास्त्रदृष्टेन भृत्यैर्वार्यः प्रयत्नतः ॥ ५८ ॥
करटक आह । कस्मिन् स्वामी पिङ्गलको व्यसने वर्तते । इह हि सप्त
व्यसनानि राज्ञां भवन्ति । तथा हि
 
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पश्चमम् ।
महश्च दण्डपारुष्यमर्थदूषणमेव च ॥ ५९ ॥
दमनक आह । भद्रैकमेवेदं व्यसनं प्रसङ्गाख्यं सप्ताङ्गमिति । करटक 20
आह । कथमेकमेवेदं व्यसनं भवति । दमनक आह । नन्विह पञ्च मूलव्यस-
नानि । तद्यथा । अभाव: प्रदोषः प्रसङ्गः पीडनं गुणप्रतिलोमत्वमिति ।
करटक आह । कस्तेषां प्रतिविशेषः । दमनक आहु । तत्र प्रथमं तावत्
स्वाम्यमात्यजनपददुर्गकोशदण्ड मित्राणामेकतमस्याप्यभावे व्यसनमभाव इत्य-
वगन्तव्यम् । यदा तु बाह्यप्रकृतयोऽन्तःप्रकृतयो वा प्रत्येकशो युगपद्वा 25
प्रकुप्यन्ति तव्यसनं प्रदोष इति मन्तव्यम् । प्रसङ्गः पूर्वमुक्त एव । लियोऽक्षा
मृगया पानमित्यादि । तत्र स्त्रियोऽक्षा मृगया पानमिति कामजो वर्गः ।
वाक्पारुष्यादिः कोपजो वर्गः । तत्र कामजैर्व्यवहितः कोपजेषु प्रवर्तते ।
सुबोध पब कामजो वर्ग: । कोपजस्तु त्रिषिषोऽपि विशेषवचमेमोक्यते ।