This page has been fully proofread once and needs a second look.

कथा ३ ]
 
स्वयंकृतानर्थकथा
 
बद्धचित्तः पिशितलोभतया निर्बुद्धिरेको गोमायुस्तज्जिघृक्षुर्दूरमपसृतयोर्मेषयो-

र्मध्यमनुप्रविष्टः पुनस्तयोः संश्लेषाभिघातात् पञ्चत्वमुपगतः । अथ परिब्व्राड्

विस्मयाविष्टोऽब्रवीत् । जम्बुको हुडुयुद्धेनेति ।
 

 
इति तृतीया ( ख ) कथा समाप्ता ।

 
कृतशौचञ्श्चागतस्तमुद्देशमापाषाढभूतिमपि गृहीतार्थमात्रासारमपक्रान्तं 5

नापश्यद्देवशर्मा । केवलं त्वविद्धत्रिदण्डकाष्ठकुण्डिकापरिस्रवणकूर्चकाद्यप-

श्
यत् । अचिन्तयच्च । क्वासावापाषाढभूतिः । नूनमहं तेन मुपिषितः । इत्युद्वि-

ग्
नमना उक्तवान् । वयं चापाषाढभूतिनेति ।
 

 
इति तृतीया ( क ) कथा समाप्ता ।
 

 
अथ तन्त्रवायहूदूतिकाकथा नाम तृतीया ( ग ) कथा

 
अथासौ कपालशकल प्रन्थिकावस्य पढ़शेषस्तस्य पदपद्धतिम न्वेषयन्, कंचिद्ग्रा-

मस्तंगच्छति रवौ प्रविष्टः । प्रविशन्नेकान्तवासिनं तन्त्रवायमपश्यढ़ादावासकं

च प्रार्थितवान् । तेनापि तस्यात्मीस्थानं निर्दिश्य भार्याभिहिता ।

यावदहं नगरं गत्वा मुहृत्समेतो मनुपानं कृत्वागच्छामि तावद् प्रमत्तया गृहे

त्वया भाव्यम् । ह्त्यादिश्य गतः । अथ तस्य भार्या पुंश्चली दृतिकासंचो - 15

दिता शरीरसंस्कारं कृत्वा परिचितसकाशं गन्तुमारब्धा यावत्तावदभिमुखोऽ

स्या भर्ता मदविलोपासमाप्ताक्षरवचनः परिस्खलितगतिरवस्तवासाः समा

यातः । तं च दृष्ट्वा सा प्रत्युत्पन्नमतिः कौशलादाकल्पमपनीय पूर्वप्रकृतमेव

वेषमास्थाय पादशौचशयना बारम्भमकरोत् । कौलिकस्तु गृहं प्रविश्य

तामाक्रोष्टमारब्धः पुंश्वलि त्वद्गतमपचारं सुहृदो मे वर्णयन्ति । भवतु पुष्टं 20

निपहं करिष्यामीत्यभिधाय लगुडमहारैस्तां जर्जरीकृतदेहां विधाय मध्य-

स्थूणायां रखवा सुप्रतिबद्धां कृत्वा प्रसुप्तः । अत्रान्तरे सा दूतिका नापिती

कौलिकं निद्रावशं विज्ञाय पुनरागत्येदमाह । तव वियोगानलदग्धोऽसौ

मुसूर्षुर्वर्तते महानुभावः । तदृहमात्मानं तव स्थाने बद्धा त्वां मुखामि । त्वं

तल गत्वा देवदत्तं संभाव्य द्रुततरमागछ । इति सा नापिती तां बन्धना- 25

द्विमोच्यकामुकसकाशं प्रेषितवती । तथानुष्ठितेऽसौ चिमद : प्रतिबुद्धस्तथैव

तामाकोष्टमारब्धः। दूतिकां तु शक्तिहृदयानुचितवाक्योदाहरणभीता न

किंचिदूचे । सोऽपि भूयस्तां तदेवाह अय सा यावत् प्रत्युत्तरं न प्रयच्छति
 

 
१५
 

 
10