2023-04-08 05:21:25 by Alok Kumar
This page has been fully proofread once and needs a second look.
योगमाख्यातवान् । एतच्च श्रुत्वा पिङ्गलकेनाभिहितः । वयस्य न भेतव्यम् ।
मद्भुजपरिरक्षितेऽस्मिन्वने यथेप्सितमुष्यताम् । अपि च भवता मत्समीप-
विहारिणाजस्रं भवितव्यम् । यत्कारणं वह्वपायमिदं वनमनेकरौद्रसत्त्वसङ्क-
टत्वादिति । संजीवकेनाभिहितम् । यथा देव आज्ञापयति । एवमुक्त्वा
पिङ्गलकः सर्वमृगपरिवृतो यमुनाकच्छमवतीर्य प्रकाममुदकपानं कृत्वा स्वैर-
प्रचारं पुनस्तस्मिन्नेव वने <error>शिबिरमनुप्रविष्ठः</error><fix>शिबिरमनुप्रविष्टः</fix> । ततस्तयोः पिङ्गलकसंजीवकयोः
प्रतिदिनं परस्परप्रीतिपूर्वकं कालोऽतिवर्तते । अनेकशास्त्रार्थप्रणिहितबुद्धित्वाच्च
संजीवकेनानभिज्ञोऽपि वन्यत्वात् पिङ्गलकोऽल्पेनैव कालेन धीमान् कृतः ।
किं बहुना प्रत्यहं पिङ्गलकसंजीवकावेव रहस्यानि मन्त्रयेते । शेषः सर्वोऽपि
मृगजनो दूरीभूतस्तिष्ठति । सिंहपराक्रमव्यापादनाहारविरहाच्च करटक-
दमनकावेव क्षुधा बाधितावन्योन्यं चिन्तयतः । तत्र दमनकोऽब्रवीत । भद्र
करटक । विनष्टावावाम् । तत्किमत्र कर्तव्यम् । आत्मना कृतोऽयं दोषः
संजीवकं पिङ्गलकसकाशमानयता । उक्तं च
जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना ।
दूतिका तन्त्रवायेन त्रयोऽनर्थाः स्वयंकृताः ॥ ५५ ॥
करटक आह । कथमेतत् । सोऽब्रवीत् ।
अथ परिव्राट्परवित्तापहृत्कथा नाम तृतीया ( क ) कथा ।
अस्ति कस्मिंश्चित् प्रदेशे परिव्राड् देवशर्मा नाम । तस्यानेकसाधूप-
पादितसूक्ष्मवासोविशेषोपचयात् कालेन महत्यर्थमात्रा संवृत्ता। स च न
कस्यचिद्विश्वासं याति । अथ कदाचिदाषाढभूतिर्नाम परवित्तापहृत्तामर्थ-
मात्रां तस्य कक्षान्तरगतां लक्षयित्वा कथमियमर्थमात्रास्य मया परिहर्तव्येति
वितर्क्य तस्य शुश्रूषामुपगतः कालेन च तं विश्वासमनयत् । अथ कदाचिदसौ
परिव्राजकस्तीर्थयात्राप्रसङ्गे तेनाषाढभूतिना सह गन्तुमारब्धः । तत्र च
कस्मिंश्चिद्वनोद्देशे नदीतीरे मात्रान्तिक आषाढभूतिमवस्थाप्यैकान्तमुदकग्रह-
णार्थं गतः ।
अथ मेषजम्बुककथा नाम तृतीया (ख) कथा ।
तत्र चासौ तटाकतीरे महन् मेषयुद्धमपश्यत् । अनवरतयुद्धशक्ति-
संपन्नयोश्च तयोः शृङ्गपञ्जरान्तरोद्भूतमसृग्बहु भूमौ