This page has been fully proofread once and needs a second look.

पिङ्गलकः प्राह । किं दृष्टं भवता तत्सत्त्वम् । दमनक आह । दृष्टं स्वामि-
प्रसादात् । पिङ्गलक आह । यथावद् दृष्टम् । दमनक आह । यथावदिति ।
सोऽब्रवीत् । न यथावद् दृष्टम् । यत्कारणं भवानप्रधानः शक्तिहीनत्वाच्च
तवोपरि न कश्चित्तस्य प्रतिबन्ध:धः । यस्मात्
 
तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणतानि सर्वशः ।
समुच्छ्रितानेव तरून् प्रबाधते
महान् महत्स्वेव करोति विक्रमम् ॥ ५३ ॥
 
अपि च ।
 
गण्डस्थले मदकलो मदवारिलुब्ध-
मत्तभ्रमद्भ्रमरपादतलाहतोऽपि ।
कोपं न गच्छति नितान्तबलोऽपि नाग-
स्तुल्यं बलेन बलिनः प्रति कोपयन्ति ॥ ५४ ॥
 
दमनक आह । मया तावत्पूर्वमेवाभिज्ञातं यथैवं स्वामी वक्ष्यति ।
तत्किं बहुना । तमेवेह तव पादानां सकाशमानयामि । तच्च श्रुत्वा पिङ्गलक
आह सहर्षम् । सहसानुष्ठीयताम् । दमनकोऽपि पुनर्गत्वा संजीवकं साक्षेप-
माह । एह्येहि दुष्ट वृषभ स्वामी पिङ्गलकस्त्वां व्याहरति । किं निर्भीर्भूत्वा
मुहुर्मुहुर्व्यर्थं नदसीति । ततः संजीवकोऽब्रवीत् । भद्र क एष पिङ्गलको
नाम यो मां व्याहरति । ततः सविस्मयं विहस्य दमनकस्तमाह । कथं
स्वामिनं पिङ्गलकमपि न जानासि । फलेन ज्ञास्यसीत्यब्रवीत् सामर्षम् ।
नन्वयं मृगराट् सर्वमृगपरिवृतो मण्डलवटाभ्याशे मानोन्नतचित्तः स्वामी
पिङ्गलको महासिंहस्तिष्ठति । तच्छ्रुत्वा संजीवको गतासुमिवात्मानं मन्यमानः
परं विषादमगमदाह च । यदि मयावश्यमेवागन्तव्यं तदभयप्रदानेन मे
प्रसादः क्रियतामिति । दमनकस्तथा नामेति प्रतिपद्य सिंहसकाशं गत्वा
निवेद्य तमर्थं लब्धानुज्ञो यथा प्रतिपन्नस्तं संजीवकं पिङ्गलकसमीपमुपनीत-
वान् । संजीवकोऽपि तं सादरं प्रणम्याग्रतः सविनयं स्थितः । स च तस्य
पीनवृत्तायतं नखकुलिशाभरणालंकृतं दक्षिणं पाणिमुपरि दत्त्वा मानपुर:रः-
सरमब्रवीत् । अपि भवतः शिवम् । कुतस्त्वमस्मिन्विजने वने समायात
इति । एवं पृष्टः संजीवको यथापूर्ववृत्तान्तमात्मनः सार्थवाहवर्धमानकाद्वि-