This page has been fully proofread once and needs a second look.

कथा २ ]
 
सृगालभेरीकथा
 

 
पिङ्गलकः प्राह । किं दृष्टं भवता तत्सत्त्वम् ।
दमनक आह।दृष्टं स्वामि-
प्रसादात् । पिङ्गलक आह । यथावद् दृष्टम् ।
 
१३
 
दमनक आह् । दृष्टं स्वामि-
दमनक आह्
। यथावदिति
 

सोऽब्रवीत् । न यथावद् दृष्टम् । यत्कारणं भवानप्रधानः शक्तिहीनत्वाच्

तवोपरि न कश्चित्तस्य प्रतिबन्ध: । यस्मात्
 
अपि च ।
 

 
 
तृणानि नोन्मूलयति प्रभञ्जनो
 

मृदुदूनि नीचैः प्रणतानि सर्वशः ।

समुताव च्छ् तरून प्रवाधते
 

 
महान् महत्स्वेव करोति विक्रमम ॥ ५३ ॥
 
5
 

 
अपि च ।
 
गण्डस्थले मदकलो मदवारिलब्ध-

मतभ्रमद्धमरपाइतलाहतोऽपि ।

कोपं न गच्छति नितान्तवलोऽपि नाग-

स्तुल्यं बलेन बलिनः प्रति कोपयन्ति ॥ ५४ ॥

दमनक आह । मया तावत्पूर्वमेवाभिज्ञातं यथैवं स्वामी वक्ष्यति ।

तल्कि बहुना । तमेवेह तव पादानां सकाशमानयामि । तच्च श्रुत्वा पिङ्गलक 15

आह् सहर्षम् । सहसानुष्ठीयताम् । दमनकोऽपि पुनर्गत्वा संजीवकं साक्षेप-

माह । एह्येहि दुष्ट वृषभ स्वामी पिङ्गलकस्त्वां व्याहरति । किं निर्भीर्भूत्वा

मुहुर्मुहुर्व्यर्थ नदसीति । तसंजीवकोऽब्रवीत् । भद्र क एप पिङ्गलको

नाम यो मां व्याहरति । ततः सविस्मयं विहस्य दमनकस्तमाह । कथं

स्वामिनं पिङ्गलकमपि न जानासि । फलेन ज्ञास्यसीत्यब्रवीत् सामर्षम् । 20

नन्वयं मृगराट्र सर्वमृगपरिवृतो मण्डलवटाभ्याशे मानोन्नतचित्तः स्वामी

पिङ्गलको महासिंहस्तिष्ठति । तच्छ्रुत्वा संजीवको गतासुमिवात्मानं मन्यमानः

परं विषादमगमदाह च । यदि मयावश्यमेवागन्तव्यं तद्भयप्रदानेन मे

प्रसादः क्रियतामिति । दमनकस्तथा नामेति प्रतिपद्य सिंहसकाशं गत्वा

निवेश तमर्थं लब्धानुज्ञो यथा प्रतिपन्नस्तं संजीवकं पिङ्गलकसमीपमुपनीत 25

वान् । संजीवकोऽपि तं सादरं प्रणम्याग्रतः सविनयं स्थितः । स च तस्य

पीनवृत्तायतं नखकुलिशाभरणालंकृतं दक्षिणं पाणिमुपरि दत्त्वा मानपुर:-

सरमब्रवीत् । अपि भवतः शिवम् । कुतस्त्वमस्मिन्विजने वने समायात

इति । एवं पृष्टः को यथापूर्ववृत्तान्तमात्मनः सार्थवाहवर्धमानकाद्वि-

10