2023-04-11 11:07:36 by Alok Kumar
This page has been fully proofread once and needs a second look.
कीदृशं वा सत्त्वमिति । ततो यावदन्वेषयति तावद्गिरिशिखराकारां भेरीम-
पश्यत् । तां च दृष्ट्वाचिन्तयत् । किमयं शब्दोऽस्याः स्वाभाविक उत परप्रेरित
इति । अथ सा यदा वायुप्रेरितैर्वृक्षशाखाग्रैः स्पृश्यते तदा शब्दं करोति ।
अन्यथा तूष्णीमास्ते । स तु तस्याः सारासारतां ज्ञातुं समीपं गत्वा स्वयमेव
कौतुकादुभयोर्मुखयोरताडयत् । अचिन्तयच्च । अहो चिरादेतन् महोद्भोज्यमु-
पस्थितं मम । तन्नूनं प्रभूतमांसभेदोऽसृग्भिः परिपूरितं भविष्यतीति । ततो
भेर्या मुखं विदार्यान्तः प्रविष्टः । परुषत्वाच्च चर्मणः कथमपि न दंष्ट्राभङ्ग-
मवाप्तवान् । तस्मिन्नपि न किंचिदासादितवान् । प्रतिनिवृत्यान्तर्लीनमव-
हस्याब्रवीत् । पूर्वमेव मया ज्ञातमिति ।
इति द्वितीया कथा समाप्ता ।
अतोऽहं ब्रवीमि । न शब्दमात्रादेव भेतव्यम् । किं तु यदि मन्यसे
तद्यत्रायं शब्दस्तत्राहमेतत्स्वरूपं विज्ञातुं गच्छामीति । पिङ्गलकोऽब्रवीत् । किं
भवांस्तदन्तिकमुत्सहते गन्तुम् । बाढमित्यसावाह । पिङ्गलक आह । भद्र
यद्येवं तद्गच्छ शिवास्ते पन्थानः सन्त्विति । दमनकोऽपि तं प्रणम्य संजीवक-
शब्दानुसारी प्रतस्थे । अथ दमनके गते भयव्याकुलितमना:नाः पिङ्गलकश्चिन्त-
यामास । अहो न शोभनं कृतं मया यत्तस्य विश्वासं गत्वात्माभिप्रायो
निवेदितः । कदाचिद्दमनकोऽयमुभयवेतनो भूत्वा ममोपरि दुष्टबुद्धि:धिः स्यात् ।
उक्तं च । संमानितविमानिता:ताः प्रत्याख्याता:ताः क्रुद्धा लुब्धाः परिक्षीणा:णाः
स्वयमुपगताश्छद्मना प्रवारयितुं शक्या:याः । अत्यन्तास्वकाराभिन्यस्ता:ताः समाहूय
पराजितास्तुल्यकारिणः शिल्पोपकारे विमानिता:ताः प्रवासोपतप्तास्तुल्यैरन्तर्हिता:ताः
प्रत्याहृतमानास्तथात्याहृतव्यवहारास्तत्कुलीनाशंसवः समवाये च स्वधर्मान्न
चलन्ति । समन्ताच्चोपधाकृत्यास्त इति । सोऽयं प्रत्याहृतमानोऽहमिति मत्वा
ममैवोपरि कदाचिद्विकारं भजेत अथवासामर्थ्याद्बलवता प्रत्यनुबद्धो ममैव
मध्येनागच्छेत् । तथाप्यहं विनष्ट एव । तत्सर्वथास्मात्स्थानादन्यत्स्थानमाश्र-
यामि । यावदस्य मया विज्ञातं चिकीर्षितमित्यवधार्य स्थानान्तरं गत्वा
दमनकमार्गमवलोकयन्नेकाक्येवावतस्थे । दमनकोऽपि संजीवकसकाशं गत्वा
वृषभोऽयमिति परिज्ञाय हृष्टमनाः पिङ्गलकाभिमुख:खः प्रतस्थे । पिङ्गलकोऽपि
पूर्वस्थानमाश्रितवानाकारप्रच्छादनार्थम् । अन्यथायं दमनको मंस्यते ।
भीरुश्चायं भीरुपरिवारश्चेति । दमनकोऽपिन् <flag>पिङ्गलक गत्य</flag> प्रणम्योपविष्टः
पश्यत् । तां च दृष्ट्वाचिन्तयत् । किमयं शब्दोऽस्याः स्वाभाविक उत परप्रेरित
इति । अथ सा यदा वायुप्रेरितैर्वृक्षशाखाग्रैः स्पृश्यते तदा शब्दं करोति ।
अन्यथा तूष्णीमास्ते । स तु तस्याः सारासारतां ज्ञातुं समीपं गत्वा स्वयमेव
कौतुकादुभयोर्मुखयोरताडयत् । अचिन्तयच्च । अहो चिरादेतन् महोद्भोज्यमु-
पस्थितं मम । तन्नूनं प्रभूतमांसभेदोऽसृग्भिः परिपूरितं भविष्यतीति । ततो
भेर्या मुखं विदार्यान्तः प्रविष्टः । परुषत्वाच्च चर्मणः कथमपि न दंष्ट्राभङ्ग-
मवाप्तवान् । तस्मिन्नपि न किंचिदासादितवान् । प्रतिनिवृत्यान्तर्लीनमव-
हस्याब्रवीत् । पूर्वमेव मया ज्ञातमिति ।
इति द्वितीया कथा समाप्ता ।
अतोऽहं ब्रवीमि । न शब्दमात्रादेव भेतव्यम् । किं तु यदि मन्यसे
तद्यत्रायं शब्दस्तत्राहमेतत्स्वरूपं विज्ञातुं गच्छामीति । पिङ्गलकोऽब्रवीत् । किं
भवांस्तदन्तिकमुत्सहते गन्तुम् । बाढमित्यसावाह । पिङ्गलक आह । भद्र
यद्येवं तद्गच्छ शिवास्ते पन्थानः सन्त्विति । दमनकोऽपि तं प्रणम्य संजीवक-
शब्दानुसारी प्रतस्थे । अथ दमनके गते भयव्याकुलितम
यामास । अहो न शोभनं कृतं मया यत्तस्य विश्वासं गत्वात्माभिप्रायो
निवेदितः । कदाचिद्दमनकोऽयमुभयवेतनो भूत्वा ममोपरि दुष्टबुद्
उक्तं च । संमानितविमानि
स्वयमुपगताश्छद्मना प्रवारयितुं शक्
पराजितास्तुल्यकारिणः शिल्पोपकारे विमानि
प्रत्याहृतमानास्तथात्याहृतव्यवहारास्तत्कुलीनाशंसवः समवाये च स्वधर्मान्न
चलन्ति । समन्ताच्चोपधाकृत्यास्त इति । सोऽयं प्रत्याहृतमानोऽहमिति मत्वा
ममैवोपरि कदाचिद्विकारं भजेत अथवासामर्थ्याद्बलवता प्रत्यनुबद्धो ममैव
मध्येनागच्छेत् । तथाप्यहं विनष्ट एव । तत्सर्वथास्मात्स्थानादन्यत्स्थानमाश्र-
यामि । यावदस्य मया विज्ञातं चिकीर्षितमित्यवधार्य स्थानान्तरं गत्वा
दमनकमार्गमवलोकयन्नेकाक्येवावतस्थे । दमनकोऽपि संजीवकसकाशं गत्वा
वृषभोऽयमिति परिज्ञाय हृष्टमनाः पिङ्गलकाभिमु