This page has been fully proofread once and needs a second look.

बुधैस्त्यक्ते राज्ये भवति न हि नीतिर्गुणवती
प्रनष्टायां नीतौ सनृपमवशं नश्यति कुलम् ॥ ५० ॥
 
पिङ्गलक आह । भद्र दमनक मैवं <flag>वोच:चः</flag> । चिरन्तनस्त्वमस्माकं मन्त्रि-
पुत्रः । दमनक आह । देव किंचिद्वक्तव्यमस्ति । सोऽब्रवीत् । ब्रूहि यत्ते
विवक्षितम् । दमनकोऽब्रवीत् । उदकग्रहणार्थं प्रवृत्तः स्वामी तत्किमिति पानी-
यमपीत्वा विस्मित इवेह निवृत्यावस्थितः । पिङ्गलक आत्मप्रछादनार्थमाह ।
दमनक न किंचित्कारणमस्ति । सोऽब्रवीत् । देव यदि नाख्येयं नाम
तत्तिष्ठतु । अथ पिङ्गलकस्तच्छ्रुत्वा चिन्तयामास । लक्षितोऽस्म्यमुना । योग्योऽयं
दृश्यते । तत्किं भक्तस्यास्य निगूह्यते । कथयाम्येतस्याग्र आत्मनोऽभिप्रायम् ।
आह च । भो दमनक श्रूयतामयं महाशब्दो दूरात् । स आह । स्वामिन्
व्यक्तं श्रुतः शब्दः । तत्किम् ।
 
पिङ्गलक आह । भद्र । अस्माद्वनादपक्रामितुमिच्छामि । यत्कारणम् ।
इदमपूर्वं सत्त्वं किंचिदिह प्रविष्टं यस्यायं महानपूर्वशब्द:दः श्रूयते । शब्दानु-
रूपेण च सत्त्वेन भवितव्यं सत्त्वानुरूपेण च पराक्रमेण । तत्सर्वथा नेह
स्थातव्यम् । दमनक आह । किं शब्दमात्रादेव भयमुपागतः स्वामी । तदप्य-
युक्तम् । अपि च
 
अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः ।
पैशुन्याद्भिद्यते स्नेहो वाग्भिर्भिद्येत कातरः ॥ ५१ ॥
 
तन्न युक्तं स्वामिनः शब्दमात्रादेव पूर्वोपार्जितमिदं वनं परित्यक्तुम् ।
इह हि शब्दा अनेकप्रकाराः श्रूयन्ते । ते तु शब्दा एव केवला:लाः । न तु भयका-
रणम् । तद्यथा । मेघस्तनितवेणुवीणापणवमृदङ्गशङ्खघण्टाशकटकपाटयन्त्रा-
दीनां शब्दाः श्रूयन्ते । न च तेभ्यो भेतव्यम् । उक्तं च
 
पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा ।
अन्तः प्रविश्य विज्ञातं यथा चर्म च दारु च ॥ ५२ ॥
 
पिङ्गलक आह । कथमेतत् । दमनक आह ।
 
अथ सृगालभेरीकथा नाम द्वितीया कथा ।
 
अस्ति । कश्चिद्गोमायुः क्षुत्क्षामकण्ठ इतश्चेतश्चाहारक्रियार्थं परिभ्रमन्
वने सैन्यद्वयस्यायोधनभूमिमपश्यत् । तत्र च महान्तं शब्दमशृणोत् । तद्भय-
संक्षुभितहृदयश्चाचिन्तयत् किमिदम् । विनष्टोऽस्मि । कस्यायं शब्दः क्व वा