This page has been fully proofread once and needs a second look.

निर्विशेषं यदा स्वामी समं भृत्येषु वर्तते ।
तत्रोद्यमसमर्थानामुत्साह:हः परिहीयते ॥ ४० ॥
 
वाजिवारणलोहानां काष्ठपाषाणवाससाम् ।
नारीपुरुषतोयानामन्तरं महदन्तरम् ॥ ४१ ॥
 
विशेषवचनेन तूच्यते ।
 
पाषाणभरसहस्रं यः स्कन्धेनाभिवाञ्छति हि वोढुम् ।
श्रममेति विनाशं वा सोऽबुद्धिस्तद्वद्वहन्नेव ॥ ४२ ॥
 
अङ्गुष्ठोदरमात्रं विशेषवित् प्राप्य पद्मरागमणिम् ।
मुखसंवाह्यमनुत्तरमर्थं किं तेन नाप्नोति ॥ ४३ ॥
 
तेन हि स्वामिगुणादेव भृत्यविशेषः । कथम् ।
 
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ ४४ ॥
 
यच्च सृगालोऽयमिति मत्वा मनोपर्यवज्ञा क्रियते । तदप्ययुक्तम् । यतः
 
विष्णुः सूकररूपेण मृगरूपी महानृषिः ।
षण्मुखश्छागरूपेण पूज्यते किं न साधुभिः ॥ ४५ ॥
 
अपि च
 
नैतदेकान्ततः सिद्धं गृहजातश्चिरन्तनः ।
भृत्यः श्रेयस्करो नित्यममात्यो निभृतस्त्विति ॥ ४६ ॥
 
तथा हि
 
मूषिका गृहजातापि हन्तव्या सापकारिणी ।
उपप्रदानैर्मार्जारो हितकृत् प्रार्थ्यतेऽन्यतः ॥ ४७ ॥
 
एरण्डभिण्डार्कनलै:लैः प्रभूतैरपि संभृतैः ।
दारुकृत्यं यथा नास्ति तथा नाज्ञैः प्रयोजनम् ॥ ४८ ॥
 
किं भक्तेनासमर्थेन किं शक्तेनापकारिणा ।
भक्तं शक्तं च मां राजन् यथावज्ज्ञातुमर्हसि ॥ ४९ ॥
 
अपि च
 
अविज्ञानाद्राज्ञो भवति मतिहीनः परिजन-
स्ततस्तत्प्राधान्याद्भवति न समीपे बुधजनः ।