This page has been fully proofread once and needs a second look.

कदर्थितस्यापि हि धैर्यवृत्ते-
र्न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य वह्ने-
नीर्नाधः शिखा यान्ति कदाचिदेव ॥ ३१ ॥
 
यदि कोकिलमेचकाञ्जनाभो
भुजग: पादतलाहतोऽप्यकाले ।
न करोत्यगुणं कयापि बुद्ध्या
किमसौ नष्टविषोऽभिसंधितव्यः ॥ ३२ ॥
 
तद् राजन्
 
विशेषज्ञो भव सदा राष्ट्रस्य च जनस्य च ।
तदन्तरज्ञानमात्रप्रतिबद्धा हि संपदः ॥ ३३ ॥
 
साधु चेदमुच्यते
 
कार्षक: सर्वबीजानि समालोड्य प्रवापयेत् ।
उत्पन्नबीजसद्भावं त्वङ्कुरेण विभावयेत् ॥ ३४ ॥
 
तत्सर्वदा विशेषज्ञेन स्वामिना भवितव्यम् । तथा च
 
स्थानेष्वेव नियोक्तव्या भृत्याश्चाभरणानि च ।
न हि चूडामणिः पादे प्रभवामीति बध्यते ॥ ३५ ॥
 
कनकभूषणसंग्रहणोचितो
यदि <flag>मणिस्त्रपुणि</flag> प्रतिबध्यते ।
न स विरौति न चापि न शोभते
भवति योजयितुर्वचनीयता ॥ ३६ ॥
 
बुद्धिमाननुरक्तोऽयमिहोभयमयं जडः ।
इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः ॥ ३७॥

असमै: समीयमानः समैश्च परिहीयमाणसत्कारः ।
अधुरि विनियुज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः ॥ ३८ ॥

अन्यश्च्च । देवपादानां वयमन्वयागता भृत्या आपत्स्वप्यनुगामिनः ।
यतो नास्माकमन्या गतिरस्ति । तदमात्यानां वचनम् । उक्तं च
 

 
सव्यदक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः ।
कस्तत्र <flag>क्षणमात्रं वै</flag> विद्यमानगतिर्वसेत् ॥ ३९ ॥