This page has not been fully proofread.

तन्त्रम् १]
 
सिंहवृषभकथा
 
कदर्थितस्यापि हि धैर्यवृत्ते-
र्न शक्यते धैर्यगुणः प्रमार्ष्टम् ।
अधोमुखस्यापि कृतस्य वह्ने-
नीधः शिखा यान्ति कदाचिदेव ॥ ३१ ॥
 
यदि कोकिलमेचकाञ्जनाभो
 
तद् राजन
 
भुजग: पादतलाहतोऽप्यकाले ।
न करोत्यगुणं कयापि बुद्धया
 
किमसौ नष्टविषोऽभिसंधितव्यः ॥ ३२ ॥
 
विशेषज्ञो भव सदा राष्ट्रस्य च जनस्य च ।
तदन्तरज्ञानमात्रप्रतिबद्धा हि संपदः ॥ ३३ ॥
 
साधु चेदमुच्यते
 
कार्षक: सर्वबीजानि समालोय प्रवापयेत् ।
उत्पन्नबीजसद्भावं त्वरेण विभावयेत् ॥ ३४ ॥
 
तत्सर्वदा विशेषज्ञेन स्वामिना भवितव्यम् । तथा च
स्थानेष्वेव नियोक्तच्या
 
भरणानि च ।
 
न हि चूडामणिः पादे प्रभवामीति बध्यते ॥ ३५ ॥
कनकभूषणसंग्रहणोचितो
 

 
5
 
10
 
15
 
यदि मणिपुणि प्रतिबध्यते ।
नस विरौति न चापि न शोभते
भवति योजयितुर्वचनीयता ॥ ३६ ॥
बुद्धिमाननुरक्तोऽयमिहोभयमयं जडः ।
इति भृत्यविचारो भृत्यैरापूर्यते नृपः ॥ ३७॥
असमै: समीयमानः समैच परिहीयमाणसत्कारः ।
अधुरि विनियुज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः ॥ ३८ ॥
अन्यच्च । देवपादानां वयमन्वयागता भृत्या आपत्स्वप्यनुगामिनः ।
यतो नास्माकमन्या गतिरस्ति । तदमात्यानां वचनम् । उक्तं च
 
25
 
सव्यदक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः ।
कस्तत्र क्षणमा विद्यमानगतिर्वसेत् ॥ ३९ ॥
 
20