This page has been fully proofread once and needs a second look.


 
अपि च ।
 
कल्पयति येन वृत्तिं सदसि च सद्भिः प्रशस्यते येन ।
स गुणस्तेन गुणवता विवर्धनीयञ्श्च रक्ष्यश्च ॥ २६ ॥
 
करटक आह । दुराराध्या हि नरपतयः पर्वता इवाजस्रं प्रकृति-
विषमा व्यालाकीर्णा रन्ध्रान्वेषिणश्छलग्राहिणश्च । कुतः
 
भोगिनः कञ्चुकासत्क्ता क्रूराः कुटिलगामिनः ।
फणिनो मन्त्रसाध्याञ्श्च राजानो भुजगा इव ॥ २७ ॥
 
सोऽब्रवीत् । एवमेतत् । तथापि
 
राजानमपि सेवन्ते विषमप्युपमुञ्जते ।
रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः ॥ २८ ॥

अपि च ।

यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् ।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ २९ ॥

 
करटक आह । शिवास्ते पन्थानः सन्तु । यथाभिप्रेतमनुष्ठीयतामिति ।
ततो दमनकोऽपि तमामन्त्र्य शनैः पिङ्गलकसमीपं गतः । तत्र दूरादेवाग-
च्छन्तं दमनकमवलोक्य पिङ्गलको द्वाःस्थानब्रवीत् । मा विचार्यतामपसार्यतां
वेत्रलता । अयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमनकः समागतः । अव्या-
हतप्रवेशो ह्येष द्वितीयमण्डलभागिति । अथोपश्लिष्य दमनकः प्रणम्य पिङ्ग-
लकनिर्दिष्टे चासन उपविष्ट: । स च तस्य नखकुलिशालंकृतं दक्षिणपाणि-
मुपरि दत्त्वा मानपुरःसरमब्रवीत् । अपि भवतः शिवम् । कस्माच्चिराद्दृ-
ष्टोऽसि । दमनक आह । न किंचिद् देवपादानां मया प्रयोजनमस्ति ।
तथापि प्राप्तकालमवश्यममात्यैर्वक्तव्यमित्यागतोऽस्मि । यस्मान्न केनचिद्
राज्ञामुपयोगकारणं नास्ति । उक्तं च
 
दन्तस्य निष्कोषणकेन राजन्
कर्णस्य कण्डूयनकेन वापि
तृणेन कार्यं भवतीश्वराणां