This page has been fully proofread once and needs a second look.

[ तन्त्रम् १
 

 
अपि च ।
 

 
कल्पयति येन वृत्तितिं सदसि च सद्भिः प्रशस्यते येन ।

स गुणस्तेन गुणवता विवर्धनीयञ्च रक्ष्यश्च ॥ २६ ॥

 
करटक आह । दुराराध्या हि नरपतयः पर्वता इवाजस्रं प्रकृति-
5

विषमा व्यालाकीर्णा रन्ध्रान्वेषिणश्छलग्राहिणञ्श्च । कुतः
 
10
 
23
 
मित्रभेदस्
 

 
भोगिनः कञ्चुकासक्ताःत्ता क्रूराः कुटिलगामिनः ।

फणिनो मन्त्रसाध्याञ्च राजानो भुजगा इव ॥ २७ ॥

 
सोऽब्रवीत् । एवमेतत् । तथापि
 
अपि च ।
 

 
राजानमपि सेवन्ते विषमप्युपमुञ्जते ।
 

रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः ॥ २८ ॥
 

अपि च ।
यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् ।

अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ २९ ॥
 
15
 

 
 
करटक आह । शिवास्ते पन्थानः सन्तु । यथाभिप्रेतमनुष्ठीयतामिति ।

ततो दमनकोऽपि तमामन्त्र्य शनैः पिङ्गलकसमीपं गतः । तत्र दूरादेवाग-

च्
छन्तं दमनकमवलोक्य पिङ्गलको द्वाः स्थानब्रवीत् । मा विचार्यतामपसार्यतां

वेत्रलता । अयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमनकः समागतः । अव्या-

हतप्रवेशो होह्येष द्वितीयमण्डलभागिति । अथोपश्लिष्य दमनकः प्रणम्य पिङ्ग-

लकनिर्दिष्टे चासन उपविष्ट: । स च तस्य नखकुलिशालंकृतं दक्षिणपाणि-
20

मुपरि दस्त्वा मानपुरःसरमन्त्ब्रवीत् । अपि भवतः शिवम् । कस्माच्चिरा
द्दृ
ष्टोऽसि । दमनक आह । न किंचिद् देवपादानां मया प्रयोजनमस्ति ।

तथापि प्राप्तकालमवश्यममात्यैर्वक्तव्यमित्यागतोऽस्मि । यस्मान्न केनचित्
द्
राज्ञामुपयोगकारणं नास्ति । उक्तं च
 

 
दन्तस्य निष्कोषणकेन राजन,
 
न्
कर्णस्य कण्डूयनकेन वापि

तृणेन कार्यं भवतीश्वराणां