This page has not been fully proofread.

[ तन्त्रम् १
 
अपि च ।
 
कल्पयति येन वृत्ति सदसि च सद्भिः प्रशस्यते येन ।
स गुणस्तेन गुणवता विवर्धनीयञ्च रक्ष्यश्च ॥ २६ ॥
करटक आह । दुराराध्या हि नरपतयः पर्वता इवाजस्रं प्रकृति-
5 विषमा व्यालाकीर्णा रन्ध्रान्वेषिणश्छलग्राहिणञ्च । कुतः
 
10
 
23
 
मित्रभेदस्
 
भोगिनः कञ्चुकासक्ताः क्रूराः कुटिलगामिनः ।
फणिनो मन्त्रसाध्याञ्च राजानो भुजगा इव ॥ २७ ॥
सोऽब्रवीत् । एवमेतत् । तथापि
 
अपि च ।
 
राजानमपि सेवन्ते विषमप्युपमुञ्जते ।
 
रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः ॥ २८ ॥
 
यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् ।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ २९ ॥
 
15
 
करटक आह । शिवास्ते पन्थानः सन्तु । यथाभिप्रेतमनुष्ठीयतामिति ।
ततो दमनकोऽपि तमामन्त्र्य शनैः पिङ्गलकसमीपं गतः । तत्र दूरादेवाग-
छन्तं दमनकमवलोक्य पिङ्गलको द्वाः स्थानब्रवीत् । मा विचार्यतामपसार्यतां
वेत्रलता । अयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमनकः समागतः । अव्या-
हतप्रवेशो होष द्वितीयमण्डलभागिति । अथोपलिष्य दमनकः प्रणम्य पिङ्ग-
लकनिर्दिष्टे चासन उपविष्ट: । स च तस्य नखकुलिशालंकृतं दक्षिणपाणि-
20 मुपरि दस्वा मानपुरःसरमन्त्रवीत् । अपि भवतः शिवम् । कस्माचिराह
ष्टोऽसि । दमनक आह । न किंचिद् देवपादानां मया प्रयोजनमस्ति ।
तथापि प्राप्तकालमवश्यममात्यैर्वक्तव्यमित्यागतोऽस्मि । यस्मान्न केनचित्
राज्ञामुपयोगकारणं नास्ति । उक्तं च
 
दन्तस्य निष्कोषणकेन राजन,
 
कर्णस्य कण्डयनकेन वापि
तृणेन कार्य भवतीश्वराणां