2023-02-21 16:54:53 by ambuda-bot
This page has not been fully proofread.
सिंहवृषमा
अनुक्तमप्यूहति पण्डितो जनः
परेङ्गितज्ञानफला हि बुद्धयः ॥ १८ ॥
तदनं भयाकुलं प्राप्याद्यैव प्रज्ञाप्रभावेणात्मीयं करिष्यामि । करटकोऽ-
नवीत् । मद्र । अनभिज्ञो भवान् सेवाधर्मस्य । तत्कथमात्मीकरिष्यसि ।
दमनक आह । भद्र । कथमहं सेवानभिज्ञः । ननु मयैष सकलोऽनुजीवि - 5
धर्मो विज्ञातः । उक्तं च
सन् १]
कोऽतिभार : समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥ १९ ॥
करटक आह । कदाचित्त्वामनवसर प्रवेशद्ववमन्यते स्वामी । सोऽ-
ब्रवीत् । अस्त्येवम् । तथाप्यनुजीविना सांनिध्यमवश्यं करणीयम् । उक्तं च 10
आसन्नमेव नृपतिर्भजते मनुष्यं
विद्याविहीनम कुली नमसंस्तुतं वा ।
प्रायेण भूमिपतय: प्रमदा लताच
यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ २० ॥
कोपप्रसादवस्तूनि विचिन्वन्तः समीपगाः ।
आरोहन्ति शनैरृत्या पुन्वन्तमपि पार्थिवम् ॥ २१ ॥
करटक आह । अथ भवांस्तत्र गत्वा किं वक्ष्यति । दमनक आह ।
उत्तरादुत्तरं वाक्यमुत्तरादेव जायते ।
सुवृष्टिगुणसंपन्नाद्वीजाद्वीजमिवापरम् ॥ २२ ॥
अपि च ।
अपायदर्शनां विपत्ति-
मुपायसंदर्शनजांच सिद्धिम् ।
मेधाविनो नीतिविधिप्रयुक्तां
पुर: स्फुरन्तीमिव दर्शयन्ति ॥ २३ ॥
न चाहमप्राप्तकालं वक्ष्यामि ।
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवम् ।
15
20
25