This page has been fully proofread once and needs a second look.

यज्जीव्यते क्षणमपि प्रथितं मनुष्यै-
र्विज्ञानविक्रमयशोभिरभग्नमानम् ।
तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञा:
काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १२ ॥
 
सुपूरा वै कुनदिका सुपूरो मूषकाञ्जलिः ।
सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ १३ ॥
 
अहितहितविचारशून्यबुद्धेः
श्रुतिसमयैर्बहुभिर्बहिष्कृतस्य ।
उदरभरणमात्रकेवलेच्छो:
पुरुषपशोश्च पशोश्च को विशेषः ॥ १४ ॥
 
गुरुशकटधुरंधरस्तृणाशी
समविषमेषु च लाङ्गलावर्षी ।
जगदुपकरणं पवित्रयोनि-
र्नरर्पशुना स विशिष्यते गवेन्द्रः ॥ १५ ॥
 
करटक आह। आवां तावदप्रधानौ तत्किमावयोरनेन व्यापारेण ।
सोऽब्रवीत् । भद्र कियता कालेनाप्रधानोऽपि प्रधानो भवति । उक्तं च
 
न कस्यचित्कश्चिदिह प्रभावा-
द्भवत्युदारोऽभिमतः खलो वा ।
लोके गुरुत्वं विपरीततां च
स्वचेष्टितान्येव नरं नयन्ति ॥ १६ ॥
 
आरोप्यतेऽश्मा शैलाग्रं यथा यत्नेन भूयसा
निपात्यते सुखेनाधस्तथात्मा गुणदोयोः ॥ १७ ॥

तद्भद्रात्मायत्तो ह्यात्मा सर्वस्य । करटक आह । अथात्र भवान् किं
कर्तुमनाः । सोऽब्रवीत् । अयं तावत्स्वामी पिङ्गलको भीतो भीतपरिवारश्च
मूढमतिः । सोऽब्रवीत् । कथं भवान्ञ् जानाति । दमनक आह । किमत्र
ज्ञेयम् । उक्तं च