This page has been fully proofread once and needs a second look.


यज्जीव्यते क्षणमपि प्रथितं मनुष्यै-
र्विज्ञानविक्रमयशोभिरभग्नमानम् ।
तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञा:
काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १२ ॥
 
सुपूरा वै कुनदिका सुपूरो मूषकाञ्जलिः ।
सुसंतुष्टः कापुरुष स्वल्पकेनापि तुष्यति ॥ १३ ॥
 
अहित हितविचारशून्यबुद्धेः
श्रुतिसमयैर्बहुभिर्बहिष्कृतस्य ।
उदरभरणमात्रकेवलेच्छो:
पुरुषपशोश्च पशोश्च को विशेषः ॥ १४ ॥
 
गुरुश कटघुधुरंधरस्तृणाशी

समविषमेषु च लाङ्गलावर्षी ।

[ तन्त्रम् १
 
जगदुपकरणं पवित्रयोनि-
नरर्नरर्पशुना स विशिष्यते गवेन्द्रः ॥ १५ ॥
 
करटक आह। आवां तावदप्रधानौ तत्किमावयोरनेन व्यापारेण ।
सोऽब्रवीत् । भद्र कियता कालेनाप्रधानोऽपि प्रधानो भवति । उक्तं च

न कस्यचित्कविहिश्चिदिह प्रभावा

द्भवत्युदारोऽभिमतः खलो वा ।
लोके गुरुत्वं विपरीततां च

स्वचेष्टितान्येव नरं नयन्ति ॥ १६ ॥

आरोप्यतेऽश्मा शैलाएंग्रं यथा यत्नेन भूयसा
निपात्यते सुखेनाधस्तथात्मा गुणदोपयोः ॥ १७ ॥
तद्भद्रात्मायत्तो ह्यात्मा सर्वस्य । करटक आह । अथात्र भवान् किं
कर्तुमनाः । सोऽब्रवीत् । अयं तावत्स्वामी पिङ्गलको भीतो भीतपरिवार
25
श्च
मूढमतिः । सोऽब्रवीत् । कथं भवान् जानाति । दमनक आ । किमत्र
ज्ञेयम् । उक्कं च
 
तं च