This page has not been fully proofread.

10
 
15
 
20
 
मित्रभेदम.
यज्जीव्यते क्षणमपि प्रथितं मनुष्यै-
विज्ञानविक्रमयशोभिरभनमानस ।
 
तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञा:
 
काकोऽपि जीवति चिरं च बलिं च भुते ॥ १२ ॥
 
सुपूरा वै कुनदिका सुपुरो भूपकाञ्जलिः ।
 
सुसंतुष्टः कापुरुपः स्वल्पकेनापि तुष्यति ॥ १३ ॥
अहित हितविचारशून्यबुद्धेः
श्रुतिसमयैर्बहुभिर्बहिष्कृतस्य ।
 
उदरभरणमात्रकेवलेच्छो:
 
पुरुषपशोच पशोच को विशेषः ॥ १४ ॥
 
गुरुश कटघुरंधरस्तृणाशी
 
समविषमेषु च लाङ्गलावर्षी ।
 
[ तन्त्रम् १
 
जगदुपकरणं पवित्रयोनि-
नरपशुना स विशिष्यते गवेन्द्रः ॥ १५ ॥
 
करटक आह। आवां तावदप्रधानौ तत्किमावयोरनेन व्यापारेण ।
सोऽब्रवीत । भद्र कियता कालेनाप्रधानोऽपि प्रधानो भवति । उक्तं च
न कस्यचित्कविहि प्रभावा
 
द्भवत्युदारोऽभिमतः खलो वा ।
लोके गुरुत्वं विपरीततां च
 
स्वचेष्टितान्येव नरं नयन्ति ॥ १६ ॥
आरोप्यतेऽश्मा शैलाएं यथा यत्नेन भूयसा
निपात्यते सुखेनाधस्तथात्मा गुणदोपयोः ॥ १७ ॥
तद्भद्रात्मायत्तो ह्यात्मा सर्वस्य । करटक आह । अथात्र भवान् किं
कर्तुमनाः । सोऽब्रवीत् । अयं तावत्स्वामी पिङ्गलको भीतो भीतपरिवार
25 मूढमतिः । सोऽब्रवीत् । कथं भवान् जानाति । दमनक आइ । किमत्र
ज्ञेयम् । उक्कं च