This page has been fully proofread once and needs a second look.


रार्थं नगरमध्ये प्रविशन्ति । अथ तत्रैकस्य शिल्पिनोऽर्धस्फाटितः काष्ठस्त-
म्भोऽर्जुनमयः खदिरकीलकेन मध्ये यन्त्रनिखातेनावष्टब्धोवतिष्ठते । तत्र
कदाचिद्वनवासी महान् वानरयूथस्तरुशिखरप्रासादशृङ्गदारुनिचयेष्वितश्चेतश्च
यथेच्छया क्रीडन्नागतः । तत्रैकस्तु वानर आसन्नविनाश: सहजचापलात्
स्तम्भ उपविश्य तस्य रन्ध्रे विलम्बितवृषण: सन् केनायमस्थाने कीलको
निखात इति पाणिभ्यां संगृह्योत्पाटयितुमारब्धः । स्थानाञ्च्चलिते कीलके
यद्वृत्तं तद्भवतानाव्ख्यातमपि विदितमेव ।
 
इति प्रथमा कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । अव्यापार प्राज्ञैः परिहर्तव्यः । इति । पुनश्चा-
ब्रवीत् । आवयोस्तावद्भक्षितशेष आहारोऽस्त्येव । दमनक आहु । कथमा 10-
हारमात्रार्थी केवलं भवान् । सर्वस्तावत् प्रधानमेसेवां कुरुते विशेषार्थी ।
साधु चेदमुच्यते
 
सुहृदामुपकारकारणाद्द्विषतामध्प्यपकारकारणात् ।
नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥ ७ ॥

यस्मिञ्जीवातवति जीवन्ति बहवः स तु जीवति ।
बकोऽपि किं न कुरुते चञ्चाच्वा स्वोदरपूरणम् ॥ ८ ॥
 
अपि च

स्वल्पस्नायुवसावशेषमलिनं निर्मासमप्यस्थि गो:
श्वा लब्ध्वा परितोषमेति न च तत्तस्य क्षुधः शान्तये ।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्व: कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम्

लाङ्गूलचालनमश्चरणावपातं
भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
 
15
 
20