This page has been fully proofread once and needs a second look.

कथा १]
 
वानरकीलककथा
 

रार्थं नगरमध्ये प्रविशन्ति । अथ तंत्रेतत्रैकस्य शिल्पिनोऽर्धस्फाटितः काष्ठस्त-

म्भोऽर्जुनमयः खदिरकीलकेन मध्ये यन्त्रनिखातेनावन्ष्टब्धोवतिष्ठते । त
त्र
कदाचिद्वनवासी महान् वानरयूथस्तरुशिखरप्रासाद शृङ्गदारुनिचयेष्वितश्चेतश्च

यथेच्छया क्रीडन्नागतः । तत्रैकस्तु वानर आसन्नविनाश: सहजचापलात्

स्तम्भ उपविश्य तस्य रन्ध्रे विलम्बितवृषण: भनसन् केनायमस्थाने कीलको 5

निखात इति पाणिभ्यां संगृह्योत्पाटयितुमारब्धः । स्थानाञ्चलिते कीलके

यद्वृत्तं तद्भवतानाव्यातमपि विदितमेव ।
 

 
इति प्रथमा कथा समाप्ता ।
 

 
अतोऽहं ब्रवीमि । अव्यापार प्राज्ञैः परिहर्तव्यः । इति । पुनश्चा-

ब्रवीत् । आवयोस्तावद्भक्षितशेष आहारोऽस्त्येव । दमनक आहु । कथमा 10

हारमात्रार्थी केवलं भवान् । सर्वस्तावत् प्रधानमेवां कुरुते विशेषार्थी ।

साधु चेदमुच्यते
 

 
सुहृदामुपकारकारणाविषतामध्यपकारकारणात् ।

नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥ ७ ॥

यस्मिञ्जीवात जीवन्ति बहवः स तु जीवति ।

बकोऽपि किं न कुरुते चञ्चा स्वोदरपूरणम् ॥ ८ ॥
 

 
अपि च

स्वल्पस्नायुवसावशेषमलिनं निर्मासमप्यस्थि गो:

श्वा लब्ध्वा परितोषमेति न च तत्तस्य क्षुधः शान्तये ।

सिंहो जम्बुकमागतमपि त्यक्त्वा निहन्ति द्विपं

सर्व: कृच्छ्रगतोऽपि वाञ्छति जनः सत्वानुरूपं फलम ॥९॥

लाङ्गूलचालनमश्चरणावपातं

भूमौ निपत्य वदनोदरदर्शनं च ।

श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
 

 
15
 

 
20