This page has been fully proofread once and needs a second look.

शेषतया सलिलमिश्रै: शिशिरतरवातैराप्यायितशरीरः कथंचिदुत्थाय शनैः
शनैर्यमुनाकच्छमुपश्लिष्टः । तत्र च मरकतसदृशानि शष्पाप्राणि भक्षयन्
स्वच्छन्दचारी कतिपयैरहोभिर्हरवृषभ इव पीनककुदधारी हृष्टपुष्टाङ्गो बलवान्
संवृत्तः प्रत्यहं च वल्मीकशिखराणि शृङ्गाग्रघट्टनैरुल्लिखन्नदंश्चास्ते । अथ
तस्मिन् वने नातिदूरे सर्वमृगपरिवृतः पिङ्गलको नाम सिंहो वनान्तरे निः-
साध्वसमुच्चैः शिरो वहन् स्ववीर्यार्जितराज्यसुखमनुभवन्नास्ते । तथा च
 
एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे ।
सत्वोच्छ्रिते मृगपती राजेति गिर: परिणमन्ति ॥ ४ ॥
नाभिषेको न संस्कार: सिंहस्य क्रियते मृगैः ।
विक्रमार्जितवित्तस्य स्वयमेव मृगेन्द्रता ॥ ५ ॥
 
 
स कदाचित्पिपासाकुलित उदकार्थी यमुनाकच्छमवातरत् । तेन चान-
नुभूतपूर्वमकालप्रलयघनगर्जितमिव संजीवकस्य नर्दितं दूरादेवाश्रावि ।
तच्च श्रुत्वातीवक्षुभितहृदयः पानीयमपीत्वाकारमाछाद्य मण्डलवटप्रदेशे
चतुर्मण्डलावस्थानेन तूष्णीमवस्थितः । चतुर्मण्डलावस्थानं त्विदम् ।
सिंह: सिंहानुयायी काकरवः किंवृत्त इति मण्डलानि । तत्र च
सर्वेष्वेव ग्रामनगरपत्तनाधिष्ठानखेटखर्वटोद्यानाग्रहारकाननवनस्थानेष्वेक एव
सिंह: स्थानीयो भवति । कतिपयाः सिंहानुयायिनस्तन्त्रधाराः । काकरववर्गा
मध्यमवर्गाः। किंवृत्ता एवान्यस्थानवासिनः । तस्य च करटकदमनकना-
मानौ द्वौ सृगालौ मन्त्रिपुत्रावास्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दम-
नकः करटकमब्रवीत् । भद्र करटक । अयं तावदस्मत्स्वामी पिङ्गलक उदक-
ग्रहणार्थमभिप्रवृत्तः किंनिमित्तामिहावस्थितः । करटक आह । किमनेन
व्यापारेणावयोः । उक्तं च
 
अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति ।
स एव निहतः शेते कीलोत्पाटीव वानरः ॥ ६ ॥
 
दमनक आह । कथमेतत् । सोऽब्रवीत् ।