This page has not been fully proofread.


 
मित्रभेदम्
 
[ तन्त्रम् १
 
शेषतया सलिलमिश्रै: शिशिरतरवातेराप्यायितशरीरः कथंचिदुत्थाय शनैः
शनैर्यमुनाकच्छमुपश्लिष्टः । तल च मरकतसदृशानि शष्पाप्राणि भक्षयन्
स्वच्छन्दचारी कतिपयैरहोभिर्हरवृपभ इव पीनककुदद्धारी हृष्टपुष्टाङ्गो बलवान्
संवृत्तः प्रत्यहं च वल्मीकशिखराणि शृङ्गाप्रघट्टनैरुल्लिखन्नदंश्चास्ते । अथ
5 तस्मिन् वने नातिदूरे सर्वमृगपरिवृतः पिङ्गलको नाम सिंहो बनान्तरे निः-
साध्वसमुच्चैः शिरो वहन् स्ववीर्यार्जित राज्यसुखमनुभवन्नास्ते । तथा च
 
एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे ।
सवोच्छ्रिते मृगपती राजेति गिर: परिणमन्ति ॥ ४ ॥
नाभिषेको न संस्कार: सिंहस्य क्रियते मृगैः ।
विक्रमार्जित वित्तस्य स्वयमेव मृगेन्द्रता ॥ ५ ॥
 
10
 
स कदाचित्पिपासाकुलित उदकार्थी यमुनाकच्छमवातरत् । तेन चान-
नुभूतपूर्वमकालप्रलय घनगर्जितभिव संजीवकम्य नर्दितं दूरादेवाभावि ।
तच श्रुत्वातीवक्षुभितहृदयः पानीयमपीत्वाकारमाछाद्य मण्डलवटप्रदेशे
चतुर्मण्डलावस्थानेन तूष्णीमवस्थितः । चतुर्मण्डलावस्थानं त्विदम् ।
15 सिंह: सिंहानुयायी काकरवः किंवृत्त इति मण्डलानि । तत्न च
सर्वेष्वेव ग्रामनगरपत्तनाधिष्ठानखेटखर्व टोद्यानाप्रहारकाननवनस्थानेष्वेक एब
सिंह: स्थानीयो भवति । कतिपयाः सिंहानुयायिनस्तन्त्रधाराः । काकरववर्गा
मध्यमवर्ग: । किंवृत्ता एवान्यस्थानवासिनः । तस्य च करटकदमनकना-
मानौ द्वौ सृगालौ मन्त्रिपुत्रावास्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दम-
20 नकः करटकमब्रवीत् । भद्र करटक । अयं तावदस्मत्स्वामी पिङ्गलक उदक-
ग्रहणार्थमभिप्रवृत्तः किंनिमित्तामहावस्थितः । करटक आह । किमनेन
व्यापारेणावयोः । उक्तं च
 
अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति ।
स एव निहतः शेते कीलोत्पाटीव वानरः ॥ ६ ॥
 
25 दमनक आह । कथमेतत् । सोऽब्रवीत् ।