2024-09-17 23:32:31 by aravinda
This page has been fully proofread twice.
अथ मित्रभेदं नाम प्रथमं तन्त्रम् ।
अथेदमारभ्यते मित्रभेदं नाम प्रथमं तन्त्रम् । यस्यायं आद्यः श्लोकः ।
वर्धमानो महान्स्नेहः सिंहगोवृषयोर्वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १ ॥
राजपुत्रा आहुः । कथमेतत् । विष्णुशर्मा कथयति ।
अस्ति दक्षिणापथे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जितवृत्ति-
र्वर्धमानको नाम सार्थवाहः प्रतिवसति स्म । तस्य कदाचिच्चित्तमुत्पन्नं
यत्प्रभूतेऽपि वित्तेऽर्थवृद्धिः करणीयेति । उक्तं च
अलब्धमर्थं लिप्सेत लब्धं रक्षेदवेक्षया ।
रक्षितं वर्धयेन्नित्यं वृद्धं पात्रेषु निक्षिपेत् ॥ २ ॥
अलब्धलाभार्था लब्धपरिरक्षणी रक्षितविवर्धनी वर्धितस्य तीर्थप्रतिपादनी
चेति लोकयात्रा । तत्रालभमानस्य न किंचिदस्ति । लब्धोऽप्यरक्ष्यमाणोऽर्थो
बहूपद्रवतया सद्यो विनश्यति । अवर्धमानश्चार्थः शनैरप्युपयुज्यमानोऽ-
ञ्जनवत् क्षीयते । अनुपयुज्यमानः प्रयोजनोत्पत्तौ तुल्योऽप्राप्तेनेति । अतः
प्राप्तस्य रक्षणविवर्धनोपयोगाः कार्याः । उक्तं च
उपार्जितानामर्थानां त्याग एव हि रक्षणम् ।
तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥ ३ ॥
इत्येवं संप्रधार्य मथुरागामि भाण्डमुपसंगृह्य शुभे तिथौ गुरुजनानुज्ञातस्त-
स्मान्नगराद्वाणिज्येन विनिर्गतः । तस्य च द्वौ वृषभौ वोढारावग्रधुरायां
नन्दकसंजीवकनामानावभूताम् । अथ गच्छतस्तस्य महति वने दूरावरूढ-
गिरिनिर्झरस्खलितवारिजनितकर्दममग्नैकचरणवैकल्याच्छकटस्य चातिभार-
गुरुत्वात् कस्मिंश्चित्प्रदेशे कथमपि दैववशात्तयोर्वृषभयोः संजीवको युगभङ्गं
कृत्वा निषसाद । तं च दृष्ट्वा वर्धमानकः सार्थवाहः परं विषादमगमत् ।
त्र्यहं चोदीक्ष्य यदासौ न <error>वै कल्यतां</error> <fix>वैकल्यतां</fix> लभते स्म तदा तस्य रक्षिपुरुषान्नि-
योज्य शेषसार्थसंरक्षणार्थं बह्वपायं वनमिति मत्वा यथाभिलषितं दिगन्तरं