This page has not been fully proofread.

अथ मित्रभेदं नाम प्रथमं तन्त्रम् ।
 
अथेदमारभ्यते मित्रभेदं नाम प्रथमं तन्त्रम् । यस्यायं आद्यः लोकः ।
वर्धमानो महान्स्नेह: सिंहगोवृपयोर्वने ।
 
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १ ॥
राजपुत्रा आहुः । कथमेतत् । विष्णुशर्मा कथयति ।
 
अस्ति दक्षिणापथे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जितवृत्ति-
वर्धमानको नाम सार्थवाहः प्रतिवसति स्म । तस्य कदा चिञ्चित्तमुत्पन्नं
यत्प्रभूतेऽपि वित्तेऽर्थवृद्धिः करणीयेति । उक्तं च
 
अलब्धमर्थ लिप्सेत लब्धं रक्षेदवेक्षया ।
 
रक्षितं वर्धयेन्नित्यं वृद्धं पात्रेषु निक्षिपेत् ॥ २ ॥
अलब्धलाभार्था लब्धपरिरक्षणी रक्षितविवर्धनी वर्धितस्य तीर्थप्रतिपादनी
चेति लोकयात्रा । तत्रालभमानस्य न किंचिदस्ति । लब्धोऽप्यरक्ष्यमाणोऽर्थो
बहुपद्रवतया सद्यो विनश्यति । अवर्धमानश्वार्थ : शनैरप्युपयुज्यमानोऽ-
अनवत् क्षीयते । अनुपयुज्यमानः प्रयोजनोत्पत्तौ तुरुयोऽप्राप्तेनेति । अतः
प्राप्तस्य रक्षणविवर्धनोपयोगा: कार्या: । उक्तं च
 
15
 
10
 
उपार्जितानामर्थानां त्याग एव हि रक्षणम् ।
तडागोदरसंस्थानां परवाह इवाम्भसाम् ॥ ३ ॥
इत्येवं संप्रधार्य मथुरागामि भाण्डमुपसंगृह्य शुभे तिथौ गुरुजनानुज्ञातस्त-
स्मान्नगराद्वाणिज्येन विनिर्गतः । तस्य च द्वौ वृषभो वोढारावप्रधुरायां
नन्दुकसंजीवकनामानावभूताम् । अथ गच्छतस्तस्य महति वने दूरावरूढ - 20
गिरिनिर्झरस्खलितवारिजनितकर्दमम मैकचरणवैकल्याच्छकटस्य चातिभार -
गुरुत्वात् कस्मिंश्चिदेशे कथमपि दैववशात्तयोवृषभयोः संजीवको युगभङ्गं
कृत्वा निषसाद । तं च दृष्ट्वा वर्धमानक: सार्थवाहः परं विषादमगमत् ।
त्र्यहं चोदीक्ष्य यदासौ न वै कल्यतां लभते स्म तदा तस्य रक्षिपुरुपात्रि-
योज्य शेपसार्थसंरक्षणार्थं बहपायं वनमिति मत्वा यथामिलपितं दिगन्तरं 25