This page has been fully proofread once and needs a second look.

सुखोपविष्टं च तमाह राजा । ब्रह्मन् मदनुग्रहार्थमेतान् कुमारान् दुर्मे-
धसस्त्वमर्थशास्त्रं प्रत्यनन्यसमान् कर्तुमर्हसि । अर्थमात्रया च त्वां संमान-
यिष्यामीति । एवमभिहितवति पार्थिवे विष्णुशर्माप्युत्थाय तं राजानं विज्ञा-
पितवान् । देव श्रूयतामयं मम वचनसिंहनादः । नाहमर्थलिप्सुरित्येवं
ब्रवीमि । न च ममाशीतिवर्षस्य व्यावृत्तसर्वेन्द्रियस्य कश्चिदर्थोपभोगकालः ।
किं तु त्वद्धितार्थं बुद्धिपूर्वकोऽयमारम्भः । तल्लिख्यतामद्यतनो दिवसः । यद्यहं
षण्मासाभ्यन्तरे तव पुत्रान्नीतिशास्त्रपारंगतान्न करोमि ततो मामर्हति भवान्
मार्गसंदर्शनेन हस्तशतमपक्रामयितुमिति । एतामसंभाव्यां ब्राह्मणस्य प्रतिज्ञां
श्रुत्वा ससचिवो राजा प्रहृष्टमना विस्मयान्वितः सबहुमानं तस्मै विष्णुशर्मणे
कुमारान् समर्पितवान् । तेनापि कथाद्वारेण मित्रभेदमित्रप्राप्तिकाकोलूकीय-
न्ब्धनाशापरीक्षितकारित्वानीति पञ्चतन्त्राणि परिकल्प्य राजपुत्रान्नीति-
शास्त्रं ग्राहयितुमुपक्रान्तः ।
 
कथामुखमेतत् समाप्तम् ।