This page has been fully proofread once and needs a second look.

कथामुखम्
 
सुखोपावपविष्टं च तमाह राजा । ब्रह्मन्, मदनुग्रहार्थमैमेतान्, कुमारान् दुर्गेमे-
घसरु

धसस्त्
वमर्थशास्त्रं प्रत्यनन्यसमान् कर्तुमर्हसि । अर्थमात्रया च त्वां संमान-

यिष्यामीति । एवमभिहितवति पार्थिवे विष्णुशर्माप्युत्थाय तं राजानं विज्ञा-

पितवान् । देव श्रूयतामयं मम वचनसिंहनादः । नाहमर्थलिप्सुरित्येवं
5

ब्रवीमि । न च माशीतिवर्षस्य व्यावृत्तसर्वेन्द्रियस्य कश्चिदर्थोपभोगकालः ।

किं तु त्वद्धितार्थं बुद्धिपूर्वकोऽयमारम्भः । तल्लिख्यतामद्यतनो दिवसः । यद्यहं

ण्मासाभ्यन्तरे तव पुत्रा न्नीतिशास्त्रपारंगतान्न करोमि ततो मामर्हति भवान्

मार्गसंदर्शनेन हस्तशतमपक्रामयितुमिति । एतामसंभाव्यां ब्राह्मणस्य प्रतिज्ञां

श्रुत्वा सचिवो राजा प्रहृष्टमना विस्मयान्वितः सबहुमानं तस्मै विष्णुशर्मणे

कुमारान् समर्पितवान् । तेनापि कथाद्वारेण मित्रभेद मित्रप्राप्तिकाकोलूकीय-

लन्धनाशापरीक्षितकारित्वानीति पञ्चतन्त्राणि परिकल्प्य राजपुत्रान्नीति-

शास्त्रं प्ग्राहयितुमुपक्रान्तः ।
 

 
कथामुखमेतत् समाप्तम् ।