This page has not been fully proofread.

कथामुखम्
 
सुखोपावष्टं च तमाह राजा । ब्रह्मन्, मदनुग्रहार्थमैतान्, कुमारान् दुर्गे-
घसरुवमर्थशास्त्रं प्रत्यनन्यसमान् कर्तुमर्हसि । अर्थमात्रया च त्वां संमान-
यिष्यामीति । एवमभिहितवति पार्थिवे विष्णुशर्माप्युत्थाय तं राजानं विज्ञा-
पितवान् । देव श्रूयतामयं मम वचनसिंहनादः । नाहमर्थलिप्सुरित्येवं
5 ब्रवीमि । न च समाशीतिवर्षस्य व्यावृत्तसर्वेन्द्रियस्य कश्चिदर्थोपभोगकालः ।
किं तु वद्धतार्थ बुद्धिपूर्वकोऽयमारम्भः । तल्लिख्यतामद्यतनो दिवसः । यद्यहं
घण्मासाभ्यन्तरे तव पुत्रा नीतिशास्त्रपारंगतान्न करोमि ततो मामर्हति भवान्
मार्गदर्शनन हस्तशतमपक्रामयितुमिति । एतामसंभाव्यां ब्राह्मणस्य प्रतिज्ञां
श्रुत्वा सचिव राजा प्रहृष्टमना विस्मयान्वितः सबहुमानं तस्मै विष्णुशर्मणे
कुमारान समर्पितवान । तेनापि कथाद्वारेण मित्रभेद मित्रप्राप्तिकाकोलूकीय-
लन्धनाशापरीक्षितकारिवानीति पञ्चतन्त्राणि परिकल्प्य राजपुत्रान्नीति-
शास्त्रं प्राहयितुमुपक्रान्तः ।
 
कथामुखमेतत् समाप्तम् ।