This page has been fully proofread once and needs a second look.

पञ्चतन्त्रम् ।
 
अथ कथामुखम् ।
 
मनवे वाचस्पतये शुक्राय पराशराय ससुताय ।
चाणक्याय च विदुषे नमोऽस्तु नृपशास्त्रकर्तृभ्यः ॥ १ ॥

सकलार्थशास्त्रसारं जगति समालोक्य विष्णुशर्मापि ।
तन्त्रैः पञ्चभिरेतैश्चकार सुमनोहरं शास्त्रम् ॥ २ ॥
 
तद्यथानुश्रूयते । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् ।
तत्र सकलार्थिजनमनोरथकल्पद्रुमः प्रवरनरपतिमुकुटमणिमरीचिनिचयरञ्जित-
चरणयुगलः सकलकलापारंगतः सकलार्थशास्त्रविदमरशक्तिर्नाम राजा बभूव ।
तस्य च त्रयः पुत्राः परमदुर्मेधसो वसुशक्तिरुग्रशक्तिरनेकशक्तिश्चेति नामानो
बभूवुः । अथ तानर्थशास्त्रं प्रति जडानालोक्य स राजा सचिवानाहूय
संप्रधारितवान् । ज्ञातमेव भवद्भिर्यथा ममैते पुत्राः परमदुर्मेधसः ।
 
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ।
तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ॥ ३ ॥

वरं गर्भस्रावो वरमृतुषु नैवाभिगमनं
वरं जातप्रेतो वरमपि च कन्यैव जनिता ।
वरं वन्ध्या भार्या वरमगृहवासे निवसनं
न चाविद्वान् रूपद्रविणबलयुक्तोऽपि तनयः ॥ ४ ॥
 
तदेषां बुद्धिप्रबोधनं केनोपायेनानुष्ठीयते । इति । तत्र केचिदाहुः । देव
द्वादशभिर्वर्षैः किल व्याकरणं श्रूयते । तद्यदि कथमपि ज्ञायते ततो धर्मार्थ-
कामशास्त्राणि ज्ञेयानि । तदेतदतिगहनं धीमतामपि किं पुनर्मन्दबुद्धीनाम् ।