2023-03-04 08:28:02 by Alok Kumar
This page has been fully proofread once and needs a second look.
  
  
  
  पञ्चतन्त्रम् ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
अथ कथामुखम् ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
मनवे वाचस्पतये शुक्राय पराशराय ससुताय ।
  
  
  
  
  
  
  
चाणक्याय च विदुषे नमोऽस्तु नृपशास्त्रकर्तृभ्यः ॥ १ ॥
  
  
  
  
  
  
  
सकलार्थशाखस्त्रसारं जगति समालोक्य विष्णुशर्मापि ।
  
  
  
  
  
  
  
तन्त्रैः पञ्चभिरेतैश्चकार सुमनोहरं शास्त्रम् ॥ २ ॥
  
  
  
  
  
  
  
   
  
  
  
तद्यथानुश्रूयते । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । 5
  
  
  
  
  
  
  
तत्र सकलार्थिजनमनोरथकल्पद्रुमः प्रवरनरपतिमुकुटमणिमरीचिनिचयरञ्जित-
  
  
  
  
  
  
  
चरणयुगलः सकलकलापारंगतः सकलार्थशास्त्र विदमरशक्तिर्नाम राजा बभूव ।
  
  
  
  
  
  
  
तस्य च त्रयः पुत्राः परमदुर्मेधसो वसुशक्तिरुप्ग्रशफिक्तिरनेकशक्तिश्चेति नामानों
  
  
  
  नो
  
  
  
बभूवुः । अथ तानर्थशास्त्रं प्रति जडानालोक्य स राजा सचिवानाहूय
  
  
  
  
  
  
  
संप्रधारितवान् । ज्ञातमेव भवद्भिर्यथा ममैते पुत्राः परमदुर्मेधसः ।
  
  
  
  
  
  
  
   
  
  
  
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ।
  
  
  
  
  
  
  
तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ॥ ३ ॥
  
  
  
  
  
  
  
वरं गर्भस्रावो वरमृतुषु नैवाभिगमनं
  
  
  
  
  
  
  
वरं जातप्रेतो वरमपि च कन्यैव जनिता ।
  
  
  
  
  
  
  
वरं वन्ध्या भार्या वरमगृहवासे निवसनं
  
  
  
   
  
  
  
  
  
  
  
न चाविद्वान् रूपद्रविणबलयुक्तोऽपि तनयः ॥ ४ ॥
  
  
  
  
  
  
  
   
  
  
  
तदेषां बुद्धिप्रबोधनं केनोपायेनानुष्ठीयते । इति । तत्र केचिदाहुः । देव
  
  
  
  
  
  
  
द्वादशभिर्वर्षैः किल व्याकरणं श्रूयते । तद्यदि कथमपि ज्ञायते ततो धर्मार्थ-
  
  
  
  
  
  
  
कामशास्त्राणि ज्ञेयानि । तदेतद् दतिगहनं धीमतामपि किं पुनर्मन्दबुद्धीनाम् ।
  
  
  
   
  
  
  
10
   
  
  
  
15
   
  
  
  
  
अथ कथामुखम् ।
मनवे वाचस्पतये शुक्राय पराशराय ससुताय ।
चाणक्याय च विदुषे नमोऽस्तु नृपशास्त्रकर्तृभ्यः ॥ १ ॥
सकलार्थशा
तन्त्रैः पञ्चभिरेतैश्चकार सुमनोहरं शास्त्रम् ॥ २ ॥
तद्यथानुश्रूयते । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् ।
तत्र सकलार्थिजनमनोरथकल्पद्रुमः प्रवरनरपतिमुकुटमणिमरीचिनिचयरञ्जित-
चरणयुगलः सकलकलापारंगतः सकलार्थशास्त्र
तस्य च त्रयः पुत्राः परमदुर्मेधसो वसुशक्तिरु
बभूवुः । अथ तानर्थशास्त्रं प्रति जडानालोक्य स राजा सचिवानाहूय
संप्रधारितवान् । ज्ञातमेव भवद्भिर्यथा ममैते पुत्राः परमदुर्मेधसः ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ।
तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ॥ ३ ॥
वरं गर्भस्रावो वरमृतुषु नैवाभिगमनं
वरं जातप्रेतो वरमपि च कन्यैव जनिता ।
वरं वन्ध्या भार्या वरमगृहवासे निवसनं
न चाविद्वान् रूपद्रविणबलयुक्तोऽपि तनयः ॥ ४ ॥
तदेषां बुद्धिप्रबोधनं केनोपायेनानुष्ठीयते । इति । तत्र केचिदाहुः । देव
द्वादशभिर्वर्षैः किल व्याकरणं श्रूयते । तद्यदि कथमपि ज्ञायते ततो धर्मार्थ-
कामशास्त्राणि ज्ञेयानि । तदेत
10
15