This page has not been fully proofread.

पञ्चतन्त्रम् ।
 
अथ कथामुखम् ।
 
मनवे वाचस्पतये शुक्राय पराशराय ससुताय ।
चाणक्याय च विदुषे नमोऽस्तु नृपशास्त्रकर्तृभ्यः ॥ १ ॥
सकलार्थशाखसारं जगति समालोक्य विष्णुशर्मापि ।
तन्त्रैः पञ्चभिरेतैश्चकार सुमनोहरं शास्त्रम् ॥ २ ॥
तद्यथानुश्रूयते । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । 5
तत्र सकलार्थिजनमनोरथकल्पमः प्रवरनरपतिमुकुटमणिमरीचिनिचयरञ्जित-
चरणयुगलः सकलकलापारंगतः सकलार्थशास्त्र विदमरशक्तिर्नाम राजा बभूव ।
तस्य च त्रयः पुत्राः परमदुर्मेधसो वसुशक्तिरुप्रशफिरनेकशक्तिश्चेति नामानों
बभूवुः । अथ तानर्थशास्त्रं प्रति जडानालोक्य स राजा सचिवानाहूय
संप्रधारितवान् । ज्ञातमेव भवद्भिर्यथा ममैते पुत्राः परमदुर्मेधसः ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ।
तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ॥ ३ ॥
वरं गर्भस्रावो वरमृतुषु नैवाभिगमनं
वरं जातप्रेतो वरमपि च कन्यैव जनिता ।
वरं वन्ध्या भार्या वरमगृहवासे निवसनं
 
न चाविद्वान् रूपद्रविणबलयुक्तोऽपि तनयः ॥ ४ ॥
तदेषां बुद्धिप्रबोधनं केनोपायेनानुष्ठीयते । इति । तत्र केचिदाहुः । देव
द्वादशभिर्वषैः किल व्याकरणं श्रूयते । तद्यदि कथमपि ज्ञायते ततो धर्मार्थ-
कामशास्त्राणि ज्ञेयानि । तदेतद् तिगहनं धीमतामपि किं पुनर्मन्दबुद्धीनाम् ।
 
10
 
15