This page has been fully proofread once and needs a second look.

अथ वणिक्पुत्रस्ताञ् छ्रमणकान् दृष्ट्वा यथादिष्टमनुष्ठितवान् । धनराशयश्च ते
संपन्नाः । प्रवेश्यमाने च तस्मिन् धनौघे सार्थवाहपुत्रेण दीनारशतत्रयमात्रं परि-
तोषणाय रहस्यसंरक्षणाय च दिवाकीर्तये दत्तम् । नापितोऽपि तं दृष्ट्वा कुपरा-
मर्शात् स्वगृहं गत्वाचिन्तयत् । अहमपि क्षपणकत्रयं लगुडेन व्यापाद्य निधित्रयं
करिष्यामीति । ततोऽसौ लगुडं गृहीत्वावहितः स्थितः । अनन्तरं कर्मवशा-
द्भिक्षुत्रयं मिक्षार्थमागतम् । ततो लगुडेन ताडयित्वा नापितेन व्यापादितं च ।
न च निधिर्लब्धः । अनन्तरं राजपुरुषैराकृष्य नीत्वा नापितः शूले निक्षिप्तः ।
 
इति द्वितीया कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । कुदृष्टं कुपरिज्ञातमिति । तस्मात्त्वमपि तादृश एव मूर्खः ।
अतो मतिमतां सर्वाणि कार्याणि सुपरीक्षितान्येव करणीयानि ।
 
इत्यपरीक्षितकारित्वं नाम पञ्चमं तन्त्रं समाप्तम् ॥
 
इति पञ्चतन्त्रं समाप्तम् ॥