This page has been fully proofread once and needs a second look.

कथा १ ]
 
श्रमणकत्रातकनापतकथा
 
अथ वणिक्पुत्रस्ताव्ञ् छ्रमणकान् दृष्ट्वा यथादिष्टमनुष्ठितवान् । धनराशयश्च ते

संपन्नाः । प्रवेश्यमाने च तस्मिन् धनौघे सार्थवाहपुत्रेण दीनारशतलयमावंत्रयमात्रं परि-

तोषणाय रहस्यसंरक्षणाय च दिवाकीर्तये दत्तम् । नापितोऽपि तं दृष्टाट्वा कुपरा-

मर्शात् स्वगृहं गत्वा चिन्तयत् । अहमपि क्षपणकत्रयं लगुडेन व्यापाद्य निधित्रयं

करिष्यामांमीति । ततोऽसौ लगुडं गृहीत्वावहितः स्थितः । अनन्तरं कर्मवशा-

द्भिक्षुत्रयं मिक्षार्थमागतम् । ततो लगुडेन ताडयित्वा नापितेन व्यापादितं च ।

न च निधिर्लब्धः । अनन्तरं राजपुरुषैराकृष्य नीत्वा नापितः शूले निक्षिप्तः ।

 
इति द्वितीया कथा समाप्ता ।
 

 
अतोऽहं ब्रवीमि । कुदृष्टं कुपरिज्ञातमिति । तस्मात्त्वमपि तादृश एव मूर्खः ।

अतो मतिमतां सर्वाणि कार्याणि सुपरीक्षितान्येव करणीयानि ।

 
इत्यपरीक्षितकारित्वं नाम पञ्चमं तन्त्रं समाप्तम् ॥

 
इति पञ्चतन्त्रं समाप्तम् ॥