This page has been fully proofread once and needs a second look.

भ्याशमायान्तम् । तं च दृष्ट्वा क्रोधसंरक्तनयनाऽतीवस्फुरद्वदनदशनचरणः
सहसोत्पत्य तस्योपरि संनिपतितः खण्डशश्च तं कृत्वासृग्दिग्धवक्त्रचरण एवा-
यान्तं ब्राह्मणं दृष्ट्वा सुपरितुष्टमनास्तन्निवेदनाय बहिर्निश्चक्राम। अथासावपरी-
क्षितकारी ब्राह्मणस्तं नकुलं रुधिररञ्जितमुखं दृष्ट्वाचिन्तयत् । कथं भक्षितोऽनेन
मम पुत्रक इति यष्टिकया तं जघान । हत्वा तमनन्तरं यावदसौ ब्राह्मणो गृह-
मनुप्रविष्टस्तावदव्यङ्गं तथैव सुप्तं पुत्रकं कृष्णसर्पं च समीपे खण्डीकृतं दृष्ट्वा हा
हतोऽस्मि मन्दबुद्धिः किमिदमकृत्यं मया कृतमिति स्वहृदयमताडयत् । आगता च
ब्राह्मणी रुदन्तं ब्राह्मणं पश्यन्ती व्यापादितं नकुलं शतधा खण्डीकृतं सर्पं च
दृष्ट्वा तं ब्राह्मणमाह । किमिदं ब्राह्मण कथं चेति । यतो ब्राह्मणः सर्ववृत्तान्त-
माख्यातवान् । प्रेक्षावती ब्राह्मणी परं विषादमुपगता ब्राह्मणमाह ।
 
कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् ।
पुरुषेण न कर्तव्यं नापितेन यथा कृतम् ॥ ३ ॥
 
स आह । कथं चैतत् । साब्रवीत् ॥
 
अथ श्रमणकघातकनापितकथा नाम द्वितीया कथा ।
 
अस्ति कस्मिंश्चिन्नगरे भूतपूर्वो वणिक्पुत्र उत्सन्नधनवंशविभवो दारि-
द्र्याभिभूतः शीर्णगृहदेशे वृद्धघात्रीसमेतो बालभावादारभ्य तया वृद्धदास्या
धात्र्या संवर्धितः । प्रथमप्रदोष एव स चोष्णं दीर्घं च निःश्वस्याचि-
न्तयत् । कष्टमिदं दारिद्र्यं कियत्कालावधि स्यात् । इति ध्यात्वा
रात्रौ सुप्तः । स च निशावसाने स्वप्नं दृष्टवान् । आगत्य भिक्षुत्रयेण
प्रबोध्य समभिहितो यथा । भद्र प्रभातसमये वयमनेनैव रूपेणागमिष्यामः
यत्कारणम् । तव पूर्वपुरुषैरवस्थापितास्त्रयो निधयः । लगुडेन त्वदभ्याहताश्च
दीनारा भविष्यामः । न च त्वयात्र करुणा कर्तव्येति । एवं तं स्वप्नमनुचि-
न्तयन्नेव प्रभातसमये प्रतिबुद्धो धात्रीमभिहितवान् । अद्याम्ब त्वया नित्यं प्रय-
तया भवितव्यं गोमयसमार्जनादि परिकर्म वेश्मनि कार्यं यथासंभवं ब्राह्मण-
त्रयस्य भोजनं दातव्यम् । अहमपि नापितमानयामीति । तथा चानुष्ठिते
श्मश्रुनखलुञ्चनार्थं नापित आगतः । कृताचारे श्मशुकर्मणि स्वप्नदृष्टा उपायाताः ।