This page has not been fully proofread.

अपरीक्षितकारित्वम्
 
[ तन्त्रम ५
 
भ्याशमायान्तम्
 
। तं प्व
 
दृष्टा
 
क्रोधसंरक्तनयनाऽतीवस्फुरद्वदनदशन चरण:
 
सहसोत्पत्य तस्योपरि संनिपतितः खण्डशच तं कृत्वासृग्दिग्धवक्सचरण एवा-
यान्तं ब्राह्मणं दृष्टा सुपरितुष्टमनास्तनिवेदनाय बहिर्निश्चक्राम। अथासाबपरी-
क्षितकारी ब्राह्मणस्तं नकुलं रुधिररखितमुखं दृष्टाचिन्तयत् । कथं भक्षितोऽनेन
मम पुत्रक इति यष्टिकया तं जघान । हत्वा तमनन्तरं यावदसौ ब्राह्मणो गृह-
मनुप्रविष्टस्तावदव्यङ्गं तथैव सुप्तं पुत्रकं कृष्णसर्पं च समीपे खण्डीकृतं दृष्टा हा
हतोऽस्मि मन्दबुद्धिः किभिमकृत्यं मया कृतमिति स्वहृदयमताडयत् । आगता च
ब्राह्मणी रुदन्तं ब्राह्मणं पश्यन्ती व्यापादितं नकुलं शतधा खण्डीकृतं सर्प व
दृष्टा तं ब्राह्मणमाह । किमिदं ब्राह्मण कथं चेति । यतो ब्राह्मणः सर्ववृत्तान्त -
माख्यातवान् । प्रेक्षावती ब्राह्मणी परं विषादमुपगता ब्राह्मणमाह ।
 
कुदृष्टं कुपरिक्षातं कुश्रुतं कुपरीक्षितम् ।
 
पुरुषेण न कर्तव्यं नापितेन यथा कृतम् ॥ ३ ॥
स आह । कथं चैतत् । सावीत् ॥
 
अथ श्रमणकघातकनापितकथा नाम द्वितीया कथा ।
 
अस्ति कस्मिंश्चिन्नगरे भूतपूर्वो वणिक्पुत्र उत्सन्नधनवंशविभवो दारि-
यामिभूतः शीर्णगृहदेशे वृद्धघालीसमेतो बालभावादारभ्य तया वृद्धदास्या
धाच्या संवर्धितः । प्रथमप्रदोष एव स चोष्णं दीर्घ च निःश्वस्याचि
न्तयत् । कष्टमिदं दारिद्रयं कियत्कालावधि स्यात् । इति भ्यात्वा
रात्रौ सुप्तः । स च निशावसाने स्वप्नं दृष्टवान् । आगत्य भिक्षुलयेण
प्रबोध्य समभिहितो यथा । भद्र प्रभातसमये वयमनेनैव रूपेणागमिष्याम:
यत्कारणम् । तव पूर्व पुरुषैरवस्थापितास्त्रयो निधयः । लगुडेन त्वदभ्याइवाय
दीनारा भविष्यामः । न च त्वयान करुणा कर्तव्येति । एवं तं स्वप्नमनुचि-
न्तयन्नव प्रभातसमये प्रतिबुद्धो धात्रीमभिहितवान् । अद्याम्ब त्वया नित्यं प्रय-
तया भवितव्यं गोमयसमार्जनादि परिकर्म वेश्मान कार्य यथासंभवं ब्राह्मण-
त्रयस्य भोजनं दातव्यम् । अहमपि नापितमानयामीति तथा चातुझिसे
इमथुनखलुशनार्थं नापित आगतः । कृताचारे श्मशुकर्मणि स्वप्नदृष्टा उपायाताः ।