This page has been fully proofread once and needs a second look.

अथापरीक्षितकारित्वं नाम पञ्चमं तन्त्रम् ।
 
अथेदमारभ्यतेऽपरीक्षितकारित्वं नाम पञ्चमं तन्त्रम् । यस्यायमाद्यः श्लोकः ।
 
योऽर्थतत्त्वमविज्ञाय वशं क्रोधस्य गच्छति ।
सोऽचिराद्भ्रश्यते मित्राद्ब्राह्मणो नकुलादिव ॥ <error></error><fix>१</fix>
 
राजकुमारा ऊचुः । कथं चैतत् । विष्णुशर्माऽब्रवीत् ।
 
अस्ति गौडदेशे कश्चिच्छुभगोत्रो देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म ।
तस्य च भार्या यज्ञदत्ता नाम ब्राह्मणी । सा कदाचित् प्राक्तनपुण्यवशाद्गर्भिणी
संवृत्ता । तां च दृष्ट्वा देवशर्मा परं परितोषमुपागतः । एवं चाचिन्तयत् ।
महन्मे कल्याणमुपस्थितमपत्यलाभाय । ब्राह्मणीं चाब्रवीत् । भद्रे कृतार्थासि
दारकं जनयिष्यसि तस्याहं बहुमनोरथो गर्भाधानजातकर्मनामकरणादिसंस्का-
रान् करिष्ये । स च मे गोत्रधरो भविष्यतीति । एवं ब्राह्मण्यभिहिताब्रवीत् ।
को जानाति दारको भविष्यति न वेति । तन्न युक्तमेवमदृष्टेऽपि च वक्तुम् । नादा-
वेव मनोरथः कार्य:यः । उक्तं च
 
अनागतवतीं चिन्तां यो नरः कर्तुमिच्छति ।
स भूमौ पाण्डुर:रः शेते सोमशर्मपिता यथा ॥ २ ॥
 
सोऽब्रवीत् । कथं चैतत् । साह ।
 
अथ मनोरथध्यानकारकब्राह्मणकथा नाम प्रथमा कथा ।
 
अस्ति कश्चिद्विद्याभ्यासी ब्राह्मणसूनुः । तस्य कस्मिंश्चिद्वणिग्गृहे नैत्यकं
भोजनं वर्तते । स च यदा तत्र न भुङ्क्ते तदा सक्तुसेतिकां लभते । तां चावासं
नीत्वा घटे प्रक्षिप्य स्थापयति । एवं च तस्य बहुना कालेन स घटः सक्तुभिः
संपूर्ण:णः । कदाचित्तस्य घटस्य नागदन्तके स्थापितस्याधस्ताच्छयनगतोऽसौ
ब्राह्मणो दिवासुप्तप्रतिबुद्धः । एवं च चिन्तयामास । महार्घं धान्यं वर्तते
किमुत कृतान्नं सक्तवः । तन्मे विंशतिमात्रकाणां रूपकाणां सक्तवः
सन्ति । तांश्चाहं विक्रीय द्विरूपकाश्छगलिका वशमात्रा उपावर्त-
यिष्यामि । षण्मासाश्च प्रसविष्यन्ते । तासां चापत्यानि तथैव प्रसविष्यन्ते ।