This page has been fully proofread once and needs a second look.

अथापरीक्षितकारित्वं नाम पञ्चमं तन्त्रम् ।


 
अथेदमारभ्यतेऽपरीक्षितकारित्वं
 
नाम पञ्चमं तन्त्रम् । यस्यायमाद्यः श्लोकः ।

 
योऽर्थतत्त्वमविज्ञाय वशं क्रोधस्य गच्छति ।
 

सोऽचिराद्भ्रश्यते मित्राद्ब्राह्मणो नकुलादिव ॥ २ ॥

 
राजकुमारा ऊचुः । कथं' चैतत् । विष्णुशर्माऽब्रवीत् ।

 
अस्ति गौडदेशे कञ्श्चिच्छुभगोत्रो देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म ।

तस्य च भार्या यज्ञदत्ता नाम ब्राह्मणी । सा कदाचित् प्राक्तनपुण्यवशाद्गर्भिणी

संवृत्ता । तां च दृष्टाट्वा देवशर्मा परं परितोषमुपागतः । एवं चाचिन्तयत ।
त् ।
महन्मे कल्याणमुपस्थितमपत्यलाभाय । ब्राह्मणीं चात्ब्रवीत् । भद्रे कृतार्थासि

दारकं जनयिष्यसि तस्याहं बहुमनोरथो गर्भाधानजातकर्मनामकरणादिसंस्का-

रान् करिष्ये । स च मे गोत्रधरो भविष्यतीति । एवं ब्राह्मण्य भिहिताब्रवीत् ।

को जानाति दारको भविष्यति न वेति । तन्न युक्तमेवमद्ददृष्टेऽपि च वक्तुम् । नादा-

वेव मनोरथः कार्य: । उक्तं च
 

 
अनागतवर्तीतीं चिन्तां यो नरः कर्तुमिच्छति ।
 
सं

भूमौ पाण्डुर: शेते सोमशर्मपिता यथा ॥ २ ॥

 
सोऽब्रवीत् । कथं चैतत् । साहू ।
 
ह ।
 
अथ मनोरथध्यानकारकब्राह्मणकथा नाम प्रथमा कथा ।

 
अस्ति कश्चिद्विद्याभ्यासी ब्राह्मणसूनुः । तस्य कास्मंकस्मिंश्चिद्वणिग्गृहे नैत्यकं

भोजनं वर्तते । स च यदा तत्रमुझेभुङ्क्ते तदा सक्तुसेतिकां लभते । तां चावासं

नीत्वा घंटे प्रक्षिप्य स्थापयति । एवं च तस्य बहुना कालेन स घटः सक्तुभिः

संपूर्ण: । कदाचित्तस्य घटस्य नागदन्तके स्थापितस्याधस्ताच्छयनगतोऽसौ

ब्राह्मणो दिवासुप्तप्रतिबुद्धः । एवं च चिन्तयामास । महार्थंघं धान्यं वर्तते

किमुत कृतान्नं सक्तवः । तन्मे विंशतिमात्रकाणां रूपकाणां सक्तवः

सन्ति । तांश्चाहं विक्रीय द्विरूपकाश्छगलिका वशमालात्रा उपावर्त-

यिष्यामि । षण्मासाश्च प्रसविष्यन्ते । तासां चापत्यानि तथैव प्रसविष्यन्ते ।