This page has not been fully proofread.

अथापरीक्षितकारित्वं नाम पञ्चमं तन्त्रम् ।

अथेदमारभ्यतेऽपरीक्षितकारित्वं
 
नाम पञ्चमं तन्त्रम् । यस्यायमाद्यः श्लोकः ।
योऽर्थतत्त्वमविज्ञाय वशं क्रोधस्य गच्छति ।
 
सोऽचिराद्भश्यते मित्राद्ब्राह्मणो नकुलादिव ॥ २ ॥
राजकुमारा ऊचुः । कथं' चैतत् । विष्णुशर्माऽब्रवीत् ।
अस्ति गौडदेशे कञ्चिच्छुभगोत्रो देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म ।
तस्य च भार्या यज्ञदत्ता नाम ब्राह्मणी । सा कदाचित् प्राक्तनपुण्यवशागर्भिणी
संवृत्ता । तां च दृष्टा देवशर्मा परं परितोषमुपागतः । एवं चाचिन्तयत ।
महन्मे कल्याणमुपस्थितमपत्यलाभाय । ब्राह्मणीं चात्रवीत् । भद्रे कृतार्थासि
दारकं जनयिष्यसि तस्याहं बहुमनोरथो गर्भाधानजातकर्मनामकरणादिसंस्का-
रान् करिष्ये । स च मे गोलधरो भविष्यतीति । एवं ब्राह्मण्य भिहिताब्रवीत् ।
को जानाति दारको भविष्यतिन वेति । तन्न युक्तमेवमद्दष्टेऽपि च वक्तुम । नादा-
वेव मनोरथः कार्य: । उक्तं च
 
अनागतवर्ती चिन्तां यो नरः कर्तुमिच्छति ।
 
सं भूमौ पाण्डुर: शेते सोमशमपिता यथा ॥ २ ॥
सोऽब्रवीत् । कथं चैतत् । साहू ।
 
अथ मनोरथध्यानकारकब्राह्मणकथा नाम मथमा कथा ।
अस्ति कश्चिद्विद्याभ्यासी ब्राह्मणसूनुः । तस्य कास्मंश्चिद्वणि नैत्यकं
भोजनं वर्तते । सच यदा तल न मुझे तदा सक्तुसेतिकां लभते । तां चावासं
नीत्वा घंटे प्रक्षिप्य स्थापयति । एवं च तस्य बहुना कालेन स घटः सक्तुभिः
संपूर्ण: । कदाचित्तस्य घटस्य नागदन्तके स्थापितस्याधस्ताच्छयनगतोऽसौ
ब्राह्मणो दिवासुप्तप्रतिबुद्धः । एवं च चिन्तयामास । महार्थं धान्यं वर्तते
किमुत कृतानं सक्तवः । तन्मे विंशतिमालकाणां रूपकाणां सतवः
सन्ति । तांचाई विक्रीय द्विरूपकाइछगलिका वशमाला उपावर्त-
यिष्यामि । षण्मासा प्रसविष्यन्ते । तासां चापत्यानि तथैव प्रसविष्यन्ते ।