This page has been fully proofread once and needs a second look.

यान्येव बुद्धिस्खलितानि नूनं
तान्येव बुद्धेः प्रतिबोधितानि ।
मनस्विनां तत्त्वविदां मनांसि
भिषग्वराणीव चिकित्सयन्ति ॥ २० ॥
 
 
अथ शिशुमारो <error>बलीवदनकं</error><fix>वलीवदनकं</fix> प्रज्ञाकौशलविनिश्चितमना एवमाह ।
 
मौर्ख्यं प्रख्यापयन्ति स्वं परं प्राज्ञं वदन्ति तु ।
धीराः स्वेषु तु कार्येषु भवन्त्यस्खलितोद्यताः ॥ २१ ॥
 
इत्युक्त्वा निहताशः स्वमालयमगात् ।
 
इति लब्धनाशं नाम चतुर्थ तन्त्रं समाप्तम् ॥