This page has not been fully proofread.

१०६
 
लब्धनाशम्
 
[ तन्त्रम् ४
 
प्रायात् । गर्दभसकाशं गत्वाब्रवीत् । किं । भवान् प्रतिनिवृत्त इति । स आह ।
महाननर्थो मे समुत्पन्न आसीत् । न जाने गिरिशिखराकारं किमपि सत्त्वं ममो-
परि निपतितं यथायुः शेषतयाहमपेतस्तस्मात् । स आह । न त्वया विदितम् ।
उक्तं च
 
प्रायेण तु नृणां लोके त्रिवर्गमभिवाञ्छताम् ।
 
असन्तोऽपि हि वै विघ्ना उत्पद्यन्ते स्वभावतः ॥ १८ ॥
सा रासभी विहिताद्भुतशृङ्गारा त्वामवलोक्य सानुरागालिङ्गितुमुत्थिता
त्वं च कातरतया नष्टः । सा पुनर्न शक्ता त्वां विना स्थातुं तया पुनर्नश्यतो
भवतोऽवलम्बनार्थं हस्तः प्रसारितः । न चान्यदल कारणम् । तदागच्छ । एत
च्छ्रत्या गर्दभ आह । त्वया सह गच्छामीत्युक्त्वा गोमायुना पुनर्नीतस्तेन सिंहन
गृहीत्वा व्यापादितश्च । ततस्तं हत्वा सिंह आह । भद्र। अयमौषधोपयोगो देवार्थ-
नादि कृत्वोपयुज्यते । ततः सिद्धिं करोति । यतस्त्वमेवं निभृतो भूत्वा भिरक्ष
यावदहं स्नात्वा नित्यकर्म कृत्वागच्छामीत्युक्त्वा गतः । गते च सिंह गोमायु-
ना महौषघमिति मत्वातिलोल्याद् गर्दभकर्णहृदयं स्वयमेव भक्षितम् । भक्ष-
यित्वा सुपरिमृष्टवक्सचरणोऽवस्थितः । स्नात्वागतय सिंह: प्रदक्षिणं कुर्वन
दृष्टवान् कर्णो हृदयं च । आह व किमिदं वृत्तम् । कथय क कर्णाहृदयमस्य ।
गोमायुराह । स्वामिन् कुतोऽस्य मूर्खस्य कर्णहृदयम् । यस्य खलु कर्णहृदय
मस्ति स किमेवंविधो भवति । आगतका गतश्चेति । ततः सिंहस्तूष्णीं खितः।
इति प्रथमा कथा समाप्ता।
 
अतोऽहं ब्रवीमि । नाई गर्दभ इति । तद्रच्छतु भवान् । नाई ला
पुनः प्रतारवितुं शक्यः ।
 
कृतकवचनैः कार्यारम्मैस्त्वयाप्यनुनर्वित
निभृवनिभृतैः प्रशादोष याप्युपलचिवम् ।
अतिशयगुणं त्वत्पाण्डित्यं मयाप्यनुवर्तितं
कृतकवचनैः काळो नीतः समेन समं गवम् ॥ १९ ॥
 
खाधु देवमुच्यते ।