This page has been fully proofread once and needs a second look.

शाठ्यादिच्छसि मां हन्तुं प्रतिशाठ्यं कृतं मया ।
मायां तु भवतः कृत्वा मृत्योरात्मा विमोचितः ॥ १६ ॥
 
तं च तस्य चित्तनिश्चयं ज्ञात्वा शिशुमारोऽब्रवीत् । भद्र हृदयं यदि
नास्ति तथाप्यागच्छाहमन्येनौषधक्रमेण तस्या व्याधिप्रतीकारं करिष्ये । वानरोऽ-
ब्रवीत् । दुष्ट नाहं गर्दभः ।
 
आगतश्च गतश्चैव गत्वा यः पुनरागतः ।
अकर्णहृदयो मूर्खस्तत्रैव निधनं गतः ॥ १७ ॥
 
स आह । कथं चैतत् । वानर आह ।
 
अथ कर्णहृदयविहीनगर्दभकथा नाम प्रथमा कथा ।
 
अस्ति कस्मिंश्चिद्वनोद्देशे सिंहः प्रतिवसति स्म । तस्य चैको गोमायुरनुचरः।
स च सिंहः कदाचित् कुक्षिरोगाभिभूतोऽकिंचित्करः संवृत्तः । क्षुत्क्षामकण्ठेन
च गोमायुनाऽभिहितः । देव कथमस्माकमव्यापाराणां प्राणयात्रेति । सोऽब्रवीत् ।
भद्र । अयं व्याधिः केवलं गर्भकर्णहृदयेन भैषजेन निवर्तते । अन्यथा न । अतो
मे महता यत्नेन गर्दभं त्वमानय । स आह । यथाऽज्ञापयति स्वामी । इत्युक्त्वा
गत्वा नगरसमीपे रजकस्य गर्दभं दृष्ट्वाह। भद्र किमसि कृशः । सोऽब्रवीत् ।
वयस्य महता वस्त्रभारेण प्रतिदिवसं जीवामि । न चाहारमस्माद् दुरात्मनो लभेऽ
हमिति । सोऽब्रवीत् । किमनया यातनया । अहं भवन्तं तत्र नयामि यत्र भवान्
स्वर्गगतमिवात्मानं मन्यते । सोऽब्रवीत् । कथय कथम् । स आह । अस्यां
वनराज्यां मरकतसदृशशष्पप्राग्रायां नदीसनाथायामभिनवयौवनसंपन्नास्तिस्रो
रूपवत्यो रासभ्योऽदृष्टपूर्वा अपि <error>मन्येऽनेवैव</error><fix>मन्येऽनेनैव</fix> निर्वेदेनापक्रान्ताः । तासामहं भवन्तं
मध्ये प्रापयामीति । तं श्रुत्वा तथा नामेति प्रतिपन्नः । उपनीतश्च सिंहान्तिकं
मूर्खः । क्रमप्राप्तं च तं रासभं दृष्ट्वातिहर्षमुत्प्लुत्य सिंहेनाक्रान्तोऽपि गर्दभस्तस्या-
सामर्थ्यात् कथंचिदपेतोऽतीवत्रस्तहृदयः प्रतिनिवृत्यानवलोकयन् पलायितः ।
अथ गोमायुना सिंहोऽभिहितः । भोः किमेवंविधः प्रहारस्ते । यस्तावद्गर्दभमप्यु-
पनीतं हन्तुमसमर्थः सं त्वं कथं सपत्नाञ्जेष्यसि । स आह । असंशयमेतदेव ।
पुनस्तावदानीयतामधुना तं हनिष्यामीति । स आह । सज्जो भवास्मिन्मया दृष्टा-
पदानोऽपि प्रज्ञासामर्थ्यादानीतो यथा न पुनस्तथैव विक्रमिष्यतीति <flag>विहस्य</flag>