This page has not been fully proofread.

कर्णहृदयविहीनगर्दभकथा
 
शाठ्यादिच्छसि मां हन्तुं प्रतिशाठ्यं कृतं मया ।
 
मायां तु भवतः कृत्वा मृत्योरात्मा विमोचितः ॥ १६ ॥
 
तं च तस्य चित्तनिश्चयं ज्ञात्वा शिशुमारोऽब्रवीत् । भद्र हृदयं यदि
नास्ति तथाप्यागच्छाह
मन्येनौषधक्रमेण तस्या व्याधिप्रतीकारं करिष्ये । वानरोऽ-
ब्रवीत् । दुष्ट नाहं गद्भः ।
 
कथा - १.]
 
आगतश्च गतश्चैव गत्वा यः पुनरागतः ।
अकर्णहृदयो मूर्खस्तत्रैव निधनं गतः ॥ १७ ॥
स. आह । कथं चैतत् । वानर आह ।
 
१०५
 
अथ कर्णहृदयविहीनगर्दर्भकथा नाम प्रथमा कथा ।
अस्ति कस्मिंश्चिद्वनोद्देशे सिंह : प्रतिवसति स्म । तस्य चैको गोमायुरनुचरः।
स च सिंहः कदाचित् कुक्षिरोगाभिभूतोऽकिंचित्करः संवृत्तः । क्षुत्क्षामकण्ठन
च गोमायुनाऽमिहितः । देव कथमस्माकमव्यापाराणां प्राणयात्रेति । सोऽब्रवीत् ।
भद्र । अयं व्याधिः केवलं गर्भकर्णहृदयेन भैषजेन निवर्तते । अन्यथा न । अतो
मे महता यत्नेन गर्दर्भ त्वमानय । स आह । यथाऽज्ञापयति स्वामी । इत्युक्त्वा
गत्वा नगरसमीपे रजकस्य गर्दभं दृष्ट्राह। भद्र किमसि कृशः । सोऽब्रवीत् ।
वयस्य महता वस्त्रमारण प्रतिदिवसं जीवामि । न चाहारमस्माद् दुरात्मनो लभेड
हमिति । सोऽब्रवीत् । किमनया यातनया । अहं भवन्तं तब नयामि यस भवान्
स्वर्गगतमिवात्मानं मन्यते । सोऽब्रवीत् । कथय कथम् । स आह । अस्यां
बनराज्यां मरकतसदृशशष्पप्राग्रायां नदीसनाथायामाभनवयौवनसंपन्नास्तिस्त्रो
रूपवत्यो रासभ्योऽपूर्वा अपि मन्येऽनेवैव निवेदनापक्रान्ताः । तासामहं भवन्तं
मध्ये प्रापयामीति । तं श्रुत्वा तथा मामेति प्रतिपन्नः । उपनीतब्ध सिंहान्तिकं
मूर्खः । क्रमप्राप्तं च तं रासभं दृष्द्वातिहर्षमुत्लुत्य सिंहेनाकान्तोऽपि गर्दमस्तस्या-
सामर्थ्यात् कथंचिद्पेतोऽतीवतस्तहृदयः प्रतिनिवृत्यानवलोकयन् पलायितः ।
अथ गोमायुना सिंहोऽमितिः । भीः किमेवंविधः प्रहारस्ते । यस्तावद्भभमप्यु-
पनीतं हन्तुमसमर्थः सं त्वं कथं सपना जेष्यसि । स आई। असंशयमेतदेव ।
पुनस्तावदानीयता मधुना तं इनिध्यामीति (सआई। सज्जी भवास्मिन्मया रष्टा-
पदानोऽपि प्रशासामर्थ्यादानीतो यथा न पुनस्तथैव विक्रमिष्यतीति