This page has been fully proofread once and needs a second look.

उपलनिकषं सुवर्णं पुरुषो व्यवहारनिकष उद्दिष्टः ।
धूर्निकषो गोवृषभः स्त्रीणां तु न विद्यते निकषः ॥ १३ ॥
 
अतः स्त्रीकृते मया मित्रवधः कर्तव्यः । एवं वदञ् छिशुमारो वानरणो-
क्तः । किं भवान् वक्ति । स आह न किंचिदिति । ततस्तदकथनाज्जातविकारो
वानरश्चाचिन्तयत् । शिशुमारो यन्मया पृष्टो न किंचिदूचे किमत्र कारणम् ।
तदहं प्रज्ञया तस्यान्तर्गतमाकर्षयामि । इति संचिन्त्य पुनरपि सनिर्बंन्धं तमपृ-
च्छत् । स आह । मम भार्याऽशक्यव्याधिपीडिता तेनाहं विमना इति । वानर
आह । भिषङ्मन्त्रिजापात् पुष्ट्या न किंचित् प्रतिक्रियते । शिशुमारेणोक्तम् ।
पृष्टास्तेऽप्याहुः । वानरहृदयव्यतिरेकेण न जीवतीति । तच्छ्रुत्वा वानरः
स्वात्मानं गतासुमिव मन्यमानः स्वगतमचिन्तयत् । कष्टं नष्टोऽस्मि । वृद्धत्वे-
प्यजितेन्द्रियत्वफलमनुभवामि । किं <error>च,</error><fix>च</fix>
 
वनेऽपि दोषाः प्रभवन्ति रागिणां
गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः ।
अकुत्सितं कर्मणि यः प्रवर्तते
निवृत्तरागस्य गृहं तपोवनम् ॥ १४ ॥
 
इत्यालोच्य शिशुमारमाह। भद्र न शोभनमाचरितं त्वया । यद्येवं तत्किं
प्रथममेव त्वया मे न कथितम् । अहं हृदयं तत्रैव स्थापयित्वा समागतः ।
तद्गृहीत्वागमनमुचितम् । उक्तं च
 
धर्ममर्थं च कामं च त्रितयं योऽभिवाञ्छति ।
सोऽरिक्तपाणिः पश्येत ब्राह्मणं नृपतिं स्त्रियम् ॥ १५ ॥
 
असावाह । क्व तद्धृदयम् । वानरोऽब्रवीत् । तस्मिन्नेवोदुम्बरे । वानर-
हृदयं च सदा तरुषु तिष्ठतीति प्रसिद्धम् । एतदर्थं यदि कारणं भवतस्तन्निवृत्य
हृदयं गृहीत्वागम्यताम् । तच्छ्रुत्वा शिशुमारः सानन्दं प्रतिनिवृत्य तीरं गतः ।
अथ बहुमनोरथो वानरः ससंभ्रममुत्प्लुत्योदुम्बरशाखां समधिरुढो हन्त लब्धाः
प्राणास्तावदिति चिन्तयंस्तिष्ठति। शिशुमारस्त्वधस्तादब्रवीत्। भद्र तद्धृदयं गृही-
त्वा शीघ्रमागच्छ । स विहस्याह न पुनरागमिष्यामि । विज्ञातं मया सर्वम् ।
एतद्बुद्धिपूर्वं वाक्यं मयोक्तम् । गम्यतां रे मूर्ख किं शरीराद्बहिर्हृदयं तिष्ठति ।