This page has been fully proofread once and needs a second look.

शोकारतिभयत्राणं प्रीतिविस्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ ७ ॥
 
शिशुमार आह ।
 
दर्शितानि कलत्राणि गृहे भुक्तमशङ्कितम् ।
कथितानि रहस्यानि सौहृदं किमतः परम् ॥ ८ ॥
 
तद्गृहगमनदारदर्शनैकपात्राभिसंबन्धी मया भवान् न कृतः । वानरेणो-
क्तम् । किमनेन सामान्यजनस्यायं संबन्धः । अपि च
 
खले नटानामिव दारदर्शनं
गवामिवापार्थकमेव भोजनम् ।
सन्तः प्रकृत्यैव हि येन संगमं
कुर्वन्त्ययत्नादपि तस्य यद्धितम् ॥ ९ ॥
 
सोऽब्रवीत् ।
 
किमत्र चित्रं यदि सज्जनो जनः
करोति विद्वज्जनसाधुपूजनम् ।
करोति यन्नीचकुलोद्भवो जन-
स्तदद्भुतं शैत्यमिवार्कमण्डले ॥ १० ॥
 
तथापि
 
मित्रं वा बन्धुं वा नैवातिप्रणयपीडितं कुर्यात् ।
स्वं वत्समतिपिबन्तं विषाणकोट्याक्षिपति धेनुः ॥ ११ ॥
 
तद्भद्र ममापि भवते किंचित् प्रत्युपकरणमस्ति । अस्ति समुद्रमध्ये सुरम्ये
द्वीपप्रदेशेऽस्मद्गृहम् । तत्रामृतास्वादतुल्याः कल्पवृक्षसदृशास्तरवः । तन्मम
पृष्ठमारुह्य गम्यतामस्मत्स्थानमिति । एवमुक्तोऽसावगमत् परं परितोषमाह च ।
साधु भद्र प्रियं ममेदं क्षिप्रं मां तत्र प्रापयेति । अथासौ शिशुमारस्तं विनाश-
धर्माणं विश्वासोपगतं वानरं पृष्ठे गृहीत्वा गच्छंश्चिन्तयामास । कष्टं भोः ।
 
स्त्रीकार्यमिदमत्यर्थं गरीयः सारमेव च ।
तदर्थं दारुणं कर्म निन्दामि च करोमि च ॥ १२ ॥