This page has been fully proofread once and needs a second look.

अशक्योऽयं व्याधिरस्याः । अद्यापि विनष्टा नामेयमिति मन्तव्यम् । नास्याः
प्रत्यापत्तिरस्तीति । एतच्छ्रुत्वा शिशुमारः परं विषादमगमत् प्रियकलत्रतया
चाब्रवीत् । यदि मज्जीवितेनाप्यस्याः प्रतीकारस्तदिमे प्राणा उपयुज्यन्तामेतदर्थ-
मिति । साब्रवीत् । भद्र । अस्त्युपाय एक एवास्या व्याधेः । यदि वानरहृदयो-
पपत्तिरस्ति ततोऽस्या जीवितम् । अन्यथातिक्रान्ता नामेयमिति । एतत् स्त्री-
रहस्यमिति । ततोऽसौ स्वगतमचिन्तयत् । किमिदं कष्टमापतितम् । कथं वानर-
हृदयस्य लाभोऽन्यत्र वलीवदनकात् । तदप्यतिगर्हितं धर्मविरुद्धं च । अथवा
 
किं कलत्रं प्रधानं स्यादुत मित्रं गुणाधिकम् ।
कलत्रमित्रयोर्नूनं कलत्रमतिरिच्यते ॥ २ ॥

तस्मात् त्रिवर्गोऽविकलस्ततो मित्रं ततो यशः ।
सर्वलोकान्वितं चैव कस्तन्न बहु मन्यते ॥ ३ ॥
 
किंकर्तव्यतामूढः पुनरचिन्तयत् ।
 
एकः सखा प्रियो भूय उपकारी गुणान्वितः ।
हन्तव्यः स्त्रीनिमित्तेन कष्टमापतितं मम ॥ ४ ॥
 
इति विचिन्त्य गमनव्याहतमना वलीवदनकं मन्दं मन्दमगमत् । तं
मन्दमागतं दृष्ट्वा वानरेणोक्तम् । भद्र किमद्य व्याक्षेपकारणं भवतः । सोऽब्रवीत् ।
वयस्य दुःखमिदमुच्यते । न शक्नोमि भवतोऽतिप्रसङ्गं कर्तुम् । यत्कारणम् ।
एतावतापि कालेनैकान्तोपकारिणो भवतो न मया किंचिदपि प्रत्युपकर्तुं
शकितम् । अपि च
 
प्रयोजनवशात् प्रीतिं लोकः समनुवर्तते ।
त्वं तु वानरशार्दूल निष्प्रयोजनवत्सलः ॥ ५ ॥
 
अथवा युक्तमेवेदं भवतः ।
 
उपकर्तुमनुपकर्तुः प्रियाणि कर्तुं कृतान्यनुस्मर्तुम् ।
विनिपतितांश्चोद्धर्तुं कुलान्वितानामुचितमेतत् ॥ ६॥
 
सोऽब्रवीत् । नन्वयमेवासम उपकारो यत्स्वदेशबन्धुपरित्यागेऽपि कृते सं-
पन्नप्रीतियोगाद्भवन्तमाश्रित्यानुद्विग्नः सुखं यापयामीति । साध्विदमुच्यते ।