This page has not been fully proofread.

लब्धनाशम्
 
[ तन्त्रम् ४
 
अशक्योऽयं व्याधिरस्याः । अद्यापि विनष्टा नामेयमिति मन्तव्यम् । नाम्या:
प्रत्यापत्तिरस्तीति । एतच्छ्रुत्वा शिशुमारः परं विपादमगमत् प्रियकलवतया
चाब्रवीत् । यदि मज्जीवितेनाप्यस्याः प्रतीकारस्तदिमे प्राणा उपयुज्यन्तामेतदर्थ-
मिति । साब्रवीत् । भद्र । अस्त्युपाय एक एवास्या व्याधेः । यदि वानरहद्यो-
पपत्तिरति ततोऽस्या जीवितम् । अन्यथातिक्रान्ता नामेयमिति । एतत स्त्री-
रहस्यामिति । ततोऽसौ स्वगतमचिन्तयत् । किभिदं कष्टमापतितम । कथं वानर-
हृदयस्य लाभोऽन्यत्न वलीवदनकात । तदप्यतिगर्हितं धर्मविरुद्धं च । अथवा
 
किं कलवं प्रधानं स्यादुत मिश्रं गुणाधिकम ।
कललमित्रयोर्नूनं कलवमतिरिच्यते ॥ २ ॥
तस्मात् त्रिवर्गोऽविकलस्ततो मित्रं ततो यशः ।
सर्वलोकान्वितं चैव कस्तन्न बहु मन्यते ॥ ३ ॥
किंकर्तव्यतामूढः पुमरचिन्तयत् ।
 
एक: सखा प्रियो भूय उपकारी गुणान्वित ।
हन्तव्यः स्त्रीनिमित्तेन कष्टमापतितं मम ॥ ४ ॥
 
इति विचिन्त्य गमनव्याहतमना वलीवदनकं मन्द मन्दमागमत । से
मन्दमागतं दृष्टा वानरेणोक्तम् । भद्र किमय व्याक्षेपकारणं भवतः ॥
वयस्य दुःखमिदमुच्यते । न शक्नोमि भवतोऽतिप्रमङ्गं कर्तुम यत्कारणम
एतावतापि कालेनैकान्तोपकारिणो भवतो न मया किंचिदपि प्रत्युपकर्तुं
शक्तिम् । अपि च
 
प्रयोजनवज्ञान, प्रीति लोकः समनुवर्तते ।
 
त्वं तु वानरशार्दूल नियोजनघल्मलः ॥ ५ ॥
अथवा युक्तमेवेदं भवतः ।
 
उपकर्तुम नुपकर्तुः प्रियाणि कर्तुं कृताभ्यनुम्मर्तुम् ।
विनिपतितांबोद्वर्तुं कुलान्वितानामुचितमेलन ॥ ६॥
सोऽब्रवीत् । नन्वयमेवासम उपकारो यत्स्वदंशबन्धुपरस्यापि सं
पद्मश्रीतियोगाद्भवन्समाश्रित्यानुष्ठिः सुखं यापयामीति । साध्विमुम्यते ।