This page has been fully proofread once and needs a second look.

अथ लब्धनाशं नाम चतुर्थ तन्त्रम्
 
अथेदमारभ्यते लब्धनाशं नाम चतुर्थं तन्त्रम् । यस्यायमाद्यः श्लोकः ।
 
प्राप्तमर्थं तु यो मोहात् सान्त्वतः प्रतिमुञ्चति ।
स तथा वञ्च्यते मूढो जलजः कपिना यथा ॥ १ ॥
 
राजपुत्रा आहुः । कथमेतत् । विष्णुशर्माऽब्रवीत् । अस्ति कस्मिंश्चित्
समुद्रतीरे वलीवदनको नाम वानरराजः प्रतिवसति स्म । स च वृद्धत्वादसाम-
र्थ्यतयान्येन नवयौवनसंपन्नेन कपिनातीवेर्ष्यानलप्रताप्यमानहृदयेनामर्षित्वा-
द्बद्धवैरेण तस्मात् स्वयूथान्निरस्तः कालं यापयति स्म । तस्मिन्नेव तीरे मधुगर्भो
नामोदुम्बरस्तिष्ठति । तत्फलाहारेण प्राणयात्रां करोति । अथ कदाचित्तस्य
भक्षयतः करादुदुम्बरफलं जले पतितम् । तेन चाम्भसि पतता मनोहरः कलरव
उत्पन्नः । तं श्रुत्वा वानरः सहजचापलात् पुनः पुनरन्यान्युदुम्बरफलानि श्रुतिसुख-
करणानीत्यपनीय प्रक्षिपति स्म। अथ कदाचित्तस्याधस्ताद्गच्छन् कृशको नाम
शिशुमारस्तानि प्रकामतो लब्ध्वा भक्षयति स्म । ततोऽसौ तत्रैव मधुराहारला-
भेन स्थितः । उत्पन्नप्रीतिसौहार्दश्च वलीवदनकस्तेन सह स्वयूथाद्भ्रंशमपि
विस्मृतवान् । शिशुमारोऽप्यतीवस्नेहाक्षिप्तहृदयः स्वगृहगमनकालक्षेपमकरोत् ।
अथ तस्य भार्या सखीमध्यगता तद्विरहात् परितप्तहृदया क्वासौ मम दयितः किं
बहिः करोत्यतिप्रसक्त्या । सुप्रभूतश्चायं कालः । त्रिवर्गं परिहार्यात्मानं नाव-
धारयति । अथ तस्याः सख्येकाब्रवीत् । कुतस्ते गृहं धनं वा तेन भर्त्रा यस्य
त्वं चरितानि न जानासि । स तु मया प्रत्यक्षमेव दृष्टः कयापि वानर्या सह समुद्र-
तीरैकदेशे परमप्रीतिपुरःसरं रहसि रममाणः । तदेवं ज्ञात्वा यत्ते करणीयं तदहीन-
कालं क्रियतामिति । तच्च श्रुत्वा शिशुमारभार्या परं मनस्तापमगमत् सर्वव्यापारांश्च
गृहगतानुत्सृज्य मलिनवसना तैलाभ्यक्तशरीरा शयनतलगताधृतिपरीतगात्री
सखीपरिवृतावस्थिता । शिशुमारोऽपि वलीवदनकप्रीत्यतिक्रान्तवेलो गृहं प्रत्यागतो-
ऽपश्यज्जायां तदवस्थामपृच्छच्चाविग्नहृदयः । किमिदमस्या अस्वास्थ्यकारणमिति ।
मूकतया न काचिदपि सखी कथयति स्म। सादरमेव मुहुर्मुहुरपृच्छत् । अथ तत्रैका
द्वितीयमिव हृदयं शिशुमारभार्यायाः सा परमावेगं सूचयन्त्यब्रवीत् । आर्य ।