2023-02-21 16:55:11 by ambuda-bot
This page has not been fully proofread.
अथ लब्धनाशं नाम चतुर्थ तन्त्रम्
अथेमारभ्यते लब्धनाशं नाम चतुर्थं तन्त्रम् । यस्यायमाद्यः श्लोकः ।
प्राप्तमथ तु यो मोहात् सान्त्वतः प्रतिमुवति ।
स तथा वञ्च्यते मूढो जलजः कपिना यथा ॥ १ ॥
राजपुत्रा आहुः । कथमेतत् । विष्णुशर्माऽब्रवीत् । अस्ति कस्मिंश्चित्
समुद्रतीरे वलीवदनको नाम वानरराजः प्रतिवसति स्म । स च वृद्धत्वादसाम-
र्ध्यतयान्येन नवयौवनसंपन्नेन कपिनातीवर्थ्यानलप्रताप्यमानहृदयेनामर्पित्वा-
द्वद्धवैरेण तस्मात् स्वयूथान्निरस्तः कालं यापयति स्म । तस्मिन्नेव तीरे मधुगर्भो
नामोदुम्बरास्तिष्ठति । तत्फलाहारण प्राणयालां करोति । अथ कदाचित्तस्य
भक्षयतः करादुदुम्बरफलं जले पतितम् । तेन चाम्भास पतता मनोहर: कलरव
उत्पन्नः । तं श्रुत्वा वानरः सहजचापलात् पुनः पुनरन्यान्युदुम्बरफलानि श्रुतिसुख-
करणानीत्यपनीय प्रक्षिपति स्म। अथ कदाचित्तस्याधस्ताद्गच्छन कृशको नाम
शिशुमारस्तानि प्रकामतो लब्ध्वा भक्षयति स्म । ततोऽसौ तत्रैव मधुराहारला-
भेन स्थितः । उत्पन्नप्रीतिसौहार्दव वलीवदनकस्तेन सह स्वयूथाशमपि
विस्मृतवान् । शिशुमारोऽप्यतीवस्नेहाक्षिप्रहृदयः स्वगृहगमनकालपमकरोत् ।
अथ तस्य भार्या सखीमध्यगता तद्विरहान, परितप्तहया कासौ मम दयितः किं
बहिः करोत्यतिप्रसक्त्या । सुप्रभूतश्चाय कालः । शिवगं परिहार्यात्मानं नाव-
धारयति । अथ तस्याः सख्येकाब्रवीत् । कुतस्ते गृहं धनं वा तेन भर्वा यस्य
त्वं चरितानि न जानासि । स तु मया प्रत्यक्षमेव दृष्टः कयापि वानर्या सह समुद्र-
तीरैकदेशे परमप्रीतिपुरःसरं रहसि रममाणः । तदेवं ज्ञात्वा यत्ते करणीयं तदहीन-
कालं क्रियतामिति । तब श्रुत्वा शिशुमारभार्या परं मनस्तावमगमन सर्वव्यापारांच
गृहगतानुत्सृज्य मलिनवसना तैलाभ्यक्तशरीरा शयनतलगताधृतिपरीनगावी
सखी परिवृताव स्थिता । शिशुमारोऽपि वलीवदनकप्रीत्यतिक्रान्तबेलो गृहं प्रत्यागतो-
उपश्यज्जायां तदवस्थामपृच्छाविदयः । मदमस्या अस्वास्थ्यकारणमिति ।
मूकतया न काचिदपि सखी कथयति स्म। सादरमेव मुहुर्मुहुन्छन् । अथ तवैका
द्वितीयमिव हृदयं शिशुमारभार्यायाः सा परमावेगं सूषयन्त्यत्रक्षीम् । आर्य ।