This page has been fully proofread once and needs a second look.

घटा हि राज्ञामभिषेककाले
सहाम्भसैवापदमुद्गिरन्ति ॥ ११६ ॥
 
न च कश्चिदनधिगमनीयो नामास्त्यापदाम् । उक्तं च
 
रामप्रव्रजनं बलेर्नियमनं पाण्डोः सुतानां वनं
वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् ।
विष्णोर्वामनतां तथार्जुनवधं संचिन्त्य लङ्केश्वरं
सर्वं कालवशादुपैति पुरुषः कः कं परित्रायते ॥ ११७ ॥
 
क्व च दशरथः स्वर्गे युद्ध्वा सुरेन्द्रसुहृद्गतः
क्व च जलनिधेर्वेलां बद्ध्वा नृपः सगरो गतः ।
क्व च करतलाज्जातो वैन्यः क्व सूर्यतनुर्मनु-
र्ननु बलवता कालेनैते प्रबोध्य निमीलिताः ॥ ११८ ॥
 
नृपतिः सचिवाः प्रमदाः पुराणशोच्यानि काननवनानि ।
स च ते च ताश्च तानि च कृतान्तदंष्ट्राविनष्टानि ॥ ११९ ॥
 
श्रुतेन बुद्धिर्व्यसनेन मूर्खता
मदेन नागः सलिलेन निम्नगा।
निशा शशाङ्केन धृतिः समाधिना
नयेन चालंक्रियते नरेन्द्रता ॥ १२० ॥
 
मुदं विषादः शरदं हिमागम-
स्तमो विवस्वान् सुकृतं कृतघ्नता ।
प्रियोपपत्तिः शुचमापदं नयः
श्रियं समृद्धामपि हन्ति दुर्नयः ॥ १२१ ॥
 
तत्सर्वथा प्रजा न्यायेन मन्त्रसुखमनुवर्तयन् राजा राज्यसुखमनुभवतीति ।
 
इति संधिविग्रहं काकोलूकीयं नाम तृतीयं तन्त्रं समाप्तम् ।